________________
૩૬૮ મા મલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૩) मध्यतलप्रदेशे एकैकच्छिद्रयुक्ते, ततोऽसौ खड्गखेटकव्यग्रहस्तस्तिर्यकृतकाष्ठमध्यप्रदेशे स्थित्वा आकाशतलमुत्प्लुत्य सप्ताग्रतोमुखानि सप्त पश्चान्मुखानि प्रस्तावात्करणानि दत्त्वा ते कीलिके वारं २ पादुकानालिकायामिति–पादुकाच्छिद्रयोः प्रवेशितवानित्यर्थः । 'अभ्युत्थाने सती'त्यादि (३१४
७), अत्र हेतुमाह-'विनीतोऽय'मित्यादि, यदा ह्यसौ साधूनामभ्युत्थानं-अभिमुखोत्थानलक्षणं 5 करोति तदा विनीतोऽयमिति निश्चित्य साधवस्तस्मै धर्मं कथयन्ति तत्कथनाच्चान्यतरसामायि
कलाभोऽस्योपपद्यते, ननु च विनयोऽत्र पृथगुपात्त एव अभ्युत्थानमपि च विनयरूपं तत्किमस्य पार्थक्येनोपन्यासः ? इति, सत्यं, किन्त्वभ्युत्थानस्य प्रधानविनयाङ्गताख्यापनार्थं भेदेनोपन्यास इति न दोषः । 'देशविरतिप्रतिपत्तिपरिणामस्त्वि'त्यादि (३१५-९), अयमत्राशयः-सर्व्वविरते:
सर्वसावद्ययोगविरतिलक्षणैकरूपत्वाद् झगित्येवैकसमयेनापि भवति कश्चित्प्रतिपत्त्यारम्भो, 10 देशविरतेस्त्वनेकरूपत्वाद् यावत्पर्यालोचयति केन रूपेणासौ मया प्रतिपत्तव्या तावदसौ'
परिणामोऽन्तर्मुहूर्तेन निष्पद्यतेऽत उक्तं-देशविरतिप्रतिपत्तिपरिणामस्त्वान्तर्मुहूर्त्तिक एव, हेतुमाहनियमिता-नियता एव काचिद् द्वीन्द्रियवधादिनिवृत्तिलक्षणा या प्राणातिपातादिनिवृत्तिस्तद्रूपत्वाद्देशविरतेः, युक्तिमात्रं चैतत् तत्त्वं पुनः केवलिनो विदन्तीति । 'तित्थयरपवयणे'त्यादिगाथा
(३१८-१०), अत्र प्रवचनशब्देन तदनन्यरूपत्वात्सङ्घो विवक्षितः, श्रुतं तु द्वादशाङ्गं आचार्यो 15 वैरस्वाम्यादि: गणधरस्तु गौतमादिः महर्द्धिकस्तु सामान्यसाधुरपि च आमर्वोषध्यादिलब्धयुक्त इति,
शेषं सुगमम् । 'शोभनमसन'मित्यादि (३२६-३), कर्मणो जीवात्सकाशाद्यः क्षेपः स समास इति सम्बन्धः, कया ?-उपशमविवेकसंवरलक्षणपदत्रयप्रतिपत्तिवृत्त्या, समासे हि 'दमदंते मेयज्जे' इत्यादिगाथायां चिलातीपुत्र उदाहरणं भविष्यति स चोपशमादिपदत्रयप्रतिपत्तिवृत्त्या स्वकर्मप्रत्यासं
करिष्यतीत्येवमुपन्यास इति । 'एएण रज्जं आयत्तं'ति (३३०-९) एष एव राज्यक्षमो न मत्पुत्रो 20 बालत्वादिति भावः । 'देवोवि मेत'मित्यादि (३३४-८), तेन देवेन मेतार्यप्रतिबोधनार्थं स
मातङ्गोऽधिष्ठितः सन् रोदितुमारब्धः, 'खड्डाए छूढो' इत्यादि (३३५-२) मातङ्गगतयां प्रक्षिप्य तं मेतार्यं स्वकीयं रूपं प्रदर्श्य देवोऽभिहितवान्-भो मेतार्य ! पूर्वं तावदनेकधा प्रतिबोध्यमानो न प्रतिबुद्धस्त्वं, साम्प्रतं गर्ताप्रक्षिप्तः 'किह' त्ति कथं करिष्यसीति कथय, 'सो भणती'त्यादि (३३५
३) ततः स मेतार्यस्तस्य देवस्य स्वरूपं ज्ञात्वा तमेवोक्तवान्-मातङ्गसुतोऽयमिति जनमध्ये 25 ममावर्णवादः समभूद् एतस्माच्चावर्णवादान्मां मोचय ततश्च द्वादश वर्षाणि गृहवासं परिपाल्य
प्रव्रज्यां ग्रहीष्यामि ततश्च देवो वदति-'किं करोमी'त्यादि, शेषं सुगमम् । 'अभओ भणती'त्यादि (३३५-८), तं पशुमशुचिं व्युत्सृजन्तं दृष्ट्वा अभयकुमार उक्तवान्-अयं पशुस्त्वद्गृहे रत्नानि मुञ्चति नात्रेति देवानुभाव एवायं, किन्तु तथापि परीक्ष्यते, किहत्ति कथं परीक्षणीय इत्याहभणितोऽसौ मातङ्ग इति शेषः । 'तस्स एगाए वायाए'इत्यादि (३३६-९), तेन हि सुवर्णकारेण