________________
પરિશિષ્ટ-૧ ૨ ૩૬૭ • कररूपश्चोल्लकः करचोल्लकः । 'दव्वाइजहोवायाणुरूवपडिवत्तिया नीइ'त्ति (२७९-१०), द्रव्यादिष्वित्यादिशब्दात्क्षेत्रकालभावपरिग्रहस्तेषु द्रव्यादिषु इदं द्रव्यं-वस्त्रादि इत्थं ग्राह्यं अनयोः क्षेत्रकालयोरित्थमुत्सर्गेणापवादेन वा धर्मकथा कार्या ग्लानादिभावयुक्तस्य चेत्थमुपचरणीयमित्यादिरूपो योऽयमुपायो यथोपायं तस्यानुरूपा प्रतिपत्तिः-परिज्ञानं तस्यां-द्रव्यादियथोपायानुरूपप्रतिपत्तौ वर्तितुं शीलं यस्य तस्य भावः सत्ता सा नीतिरुच्यते । 'करणं सहणं चे'त्यादि (२७९-१२), गाथार्द्धं, 5 करणं तपसि सहनं चोपसर्गेष्विति यथासङ्घयमत्र सम्बन्धः, कस्यां ?, दुग्र्गापदि एष व्यवसाय:, एतदुक्तं भवति–दुग्र्गापत्पतितस्यापि दृढधृतितया यत्तपसः करणं-विधानं उपसर्गाणां चाक्षोभ्यतया यत्सहनं स व्यवसाय उच्यते । 'श्रुते च अवाप्यत' इति (२८०-६), आनन्दकामदेवाभ्यां श्रीमन्महावीरसमीपे सविस्तरं धर्मं श्रुत्वा सामायिकमवाप्तमित्यर्थः । 'यथाऽङ्गऋषिणे'ति ( २८०९), अस्य च कथानकं 'चंपाए कोसिअज्जंगरिसी रुद्दए अ आणत्ती'त्यादिना योगसङ्ग्रहेषूपरिष्टा- 10 द्वक्ष्यते । ‘एस पुन वेअरणी'त्यादि ( २८२-८), कालिंजरो नाम जनपदाधिष्ठितपर्वतस्तस्य वर्त्तिन्यां-मार्गे गङ्गाविन्ध्यपर्वतयोर्मध्य उत्पत्स्यत इत्यर्थः । 'कहियं जह एगा देवी'त्यादि (२८८६), युष्मदन्तःपुरे विद्यते काचिदेवंविधाऽकार्यकारिणी राज्ञी परं रात्रौ सान्धकारप्रदेशे दृष्टत्वान्न तां सम्यगुपलक्षयामीति राज्ञे कथितमित्यर्थः । 'सोवि चोरो' इत्यादि (२९०-३), भूमौ लुठन् कथमपि तस्याः स्पर्श ज्ञातवानित्यर्थः । 'भूयपुव्वो'त्ति (२९३-२) ऋद्धिर्भूता पूर्वं यस्य स तथेति सापेक्षस्य 15 समासः, पूर्वमसावपीश्वर आसीदिति मत्वा लोकस्तस्मै स्निग्धभिक्षादिकं ददाति । 'मा अण्णस्स खण'मित्यादि (२९३-९) त्वद्व्यतिरिक्तान्यदत्ता भिक्षा मया ग्रहीतव्येत्येवम्भूतः क्षणो-नियमो न त्वया ग्राह्यो, मदीयैव भिक्षा ग्राह्या नान्यस्येति भावः । 'लद्धा सुइ'त्ति (२९५-१) लब्धः सद्बोध इत्यर्थः । 'ताहे सो चोरिय' मित्यादि (२९७-३), केनोपायेन निष्कासित इति चेद्, उच्यते, तया कुट्टिन्या स प्रोक्त इदं गृहमभ्यन्तरतो गोमयादिना सज्यते त्वमभ्यन्तरापवरकाद्वहिस्तात्पट्टशालायां 20 भव, ततोऽपि भूमिप्रमार्जनादिव्याजेन परतः क्षिप्तस्ततोऽपि परतस्तावद् यावत्खडिक्किकाया बहि: प्रक्षिप्य दास्याऽभिहितोऽसौ-किमद्याप्यत्र तिष्ठसि निष्कासितस्त्वं, गच्छ यथेप्सितप्रदेशमित्ययमत्र भावार्थ इति । 'ताओ न तरंति धरिउं'त्ति (२९८-६) यद्यपि प्ररूढस्नेहतया ताश्चतस्रो वध्वस्तं धर्तुमिच्छन्ति तथापि लब्धप्रतिष्ठश्वश्रूजनेन निष्कास्यमानत्वान्न शुक्नुवन्ति धर्तुमिति भावः । 'सव्ववेयालिउ'त्ति (३००-५) सर्वाण्येव वेलाकूलान्युपलक्षणत्वादन्यानि चावस्थानयोग्यानि स्थानानि 25 निरीक्षितानि । 'बालाणि'त्ति (३०४-१) दुहिता पुत्रश्च बालत्वे वर्तमानत्वान्नाद्यापि परिणयनमनुभवत इति भावः । 'ओहाडिउ'त्ति (३०८-२) वस्त्रादिना आच्छादित इत्यर्थ । 'वंससिहरे अर्बु कट्ठ'मित्यादि (३१२-७), वंशशिखरे तिर्यक्काष्ठं व्यवस्थाप्यते तस्य काष्ठस्योभयपार्श्वयोढे २ कीलिके व्यवस्थाप्येते, तत्रेयं स्थापना—''| ततश्च इलापुत्रः पादुके चरणयोः परिदधाति, ते च पादुके