________________
૩૬૬ હૈ મલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૩) लेश्याद्रव्याण्याक्षिप्यन्ते तैः शुक्लाद्यन्यतरभावलेश्या नारकादेरपि जन्यते, तानि च शुक्लाद्यन्यतरलेश्याद्रव्याणि प्राप्य न कृष्णादिलेश्या सर्वथा स्वरूपं परित्यज्य तद्रूपतया परिणमति किन्तु तदाकारमानं तत्प्रतिबिम्बमात्रं वा स्वीकुरुते, यथा हि दूरव्यवस्थिते जपाकुसुमे रक्तप्रभारूपमाकारमात्रं दर्पणे सङ्क्रामति, तस्मिन्नेवात्यन्तसन्निधीभूते स्पष्टं तत्प्रतिबिम्बमादर्श सङ्क्रामति, न चासौ सर्वस्वरूपपरित्यागेन जपाकुसुमरूपो जात इति वक्तुं शक्यते, तद्वदिहापि जीवस्य शुद्धाध्यवसायाकृष्टेषु शुक्लाद्यन्यतरलेश्याद्रव्येषु प्रथमं मन्दानुभावेषु कृष्णादिलेश्या तत्सम्बन्ध्याकारमात्रं प्रतिपद्यते पुनस्तेष्वेव प्रकर्षं गच्छत्सु तत्प्रतिबिम्बमङ्गीकरोति तदनुरूपानुभावमात्रं प्रतिपद्यते येन सम्यक्त्वादिलाभघातेऽसमर्था भवति न पुनः सर्वथा तद्रूपतां स्वीकरोति दर्पणवदिति
भावः, ननु कृष्णादिद्रव्यलेश्योदये सति किमन्यलेश्याद्रव्याण्याक्षिप्यन्ते येनेत्थमुच्यते ?, सत्यमेवैतत्, 10 तदाह—'उक्तं चे'त्यादि (२५१-१), अत्र च कृष्णलेश्याया 'उस्सक्कइ वा' इतीयानेव पाठो भवति
यत्पुनः 'क्वचिद् अवसक्कइ वा' इत्येतदपि दृश्यते तदशुद्धमेव, यत इह मध्यमाश्चतस्रो लेश्या उत्तरपूर्वलेश्यासङ्गमे सति यथाक्रममुत्सर्पन्ति अवसर्पन्ति च, आद्यायास्तूत्तरापेक्षयोत्सर्पणं स्याद अवसर्पणं तु तदधस्ताल्लेश्याभावादेव न भवति, चरमायास्त्ववसर्पणमेव नोत्सर्पणं, तदुपरि
लेश्याभावादिति, तस्मात्स्थितमेतत्-पूर्वं भावलेश्यापेक्षया विशुद्धलेश्यात्रये तल्लाभ उक्तः इदानीं 15 त्ववस्थितद्रव्यलेश्यापेक्षयेति । 'किं तदिति तत्र सामायिकजातिमात्रमि' त्यादि (२६३-५),
एतदुक्तं भवति-पूर्वं सामायिकजातिमात्रस्वरूपमेव परेण जिज्ञासितमतः किं सामायिकमिति सामान्यप्रश्ने प्रवृत्ते तत्राचार्येणोक्तं 'आया खलु सामइअं पच्चक्खायंतओ भवइ आया' विषयस्तु सामायिकस्य तत्र परेण न पृष्टः केवलं विषयिण्यपि परेण जिज्ञासिते विषयविषयिणोरभेदं चेतसि
व्यवस्थाप्योत्तरार्द्धनोक्तो विषय आचार्येण–'तं खलु पच्चक्खाणं आवाए. सव्वदव्वाणं'ति, तथा 20 'पढमम्मि सव्वजीवा' इत्यादिना च, तस्मात्सामायिकमेव पूर्वं ज्ञेयभावेनोक्तं न विषयः तस्य
परेणाजिज्ञासितत्वाद्, यत्त्वस्य पूर्वमभिधानं तद्विषयविषयिणोरभेदेन सामायिकस्यैव स्वरूपाभिधानमिति भावनीयं, इह पुनः सामायिकस्यैव विषयाभिधानमिति सम्बन्धः, केन ?-ज्ञेयभावेन, केषु विषयभूतेषु सामायिकं भवतीति विषयस्यैव परेण पृष्टत्वान्मुख्यतया तत्परिज्ञानभावेन पूर्वं तु
गौणभावेनेति तात्पर्यार्थः । 'इह णेयभावओभिहियं'त्ति (२६३-८), इह केष्विति. द्वारे 25 सामायिकमभिहितं ज्ञेयभावेन विषयस्येति द्रष्टव्यं, पाठान्तरं वाऽत्र दृश्यते 'इह नेयभावओऽभिहिउ'त्ति
तत्राप्ययमेवार्थः-इह मुख्यतया ज्ञेयभावेन विषयोऽभिहितः पूर्वं तु किं सामायिकमित्येवं परेण पृष्टत्वात्समायिकमेव ज्ञेयभावेनोक्तं विषयस्तु विषयिणः सामायिकादभिन्न इति मत्वा परेणाजिज्ञासितोऽपि तत्रोक्त इति न ज्ञेयभावेनोक्त इति व्यपदिश्यतेऽत्र तु तथा व्यपदिश्यत एव परेण जिज्ञासितस्योक्तेरित्यलं. प्रसङ्गेन । 'करचोल्लए'त्ति (२६६-१), कर:-अवश्यं देय: चोल्लको देशीवचनत्वाद्भोजनवाचकस्ततश्च