________________
પરિશિષ્ટ-૧ * ૩૬૫ यास्तु प्रथमसम्यक्त्वलाभकालेऽन्तरकरणप्रविष्टस्यावस्थिताध्यवसायस्य सम्यक्त्वादिलब्धयो भवन्ति ता अनाकारोपयोगेऽपि भवन्ति न कश्चिद्दोषो, न चैता अनाकारोपयोग एव भवन्तीति नियमो विज्ञेयः, उपयोगद्वयेऽप्येतासां संभवात्, केवलमनाकारोपयोगे यदा भवन्ति तदा 'उवओगदुगम्मी' त्यादि सूत्रं चरितार्थं भवति, अन्तरकरणे च वर्त्तमानः सम्यक्त्व श्रुतसामायिके समकालमेव कश्चिदतिशुद्धत्वाद्देशविरतिमपरस्त्वतिविशुद्धतरत्वात्सर्वविरतिं तत्समकालमेव प्रतिपद्यत इति 5 प्रथमौपशमिकसम्यक्त्वलाभकालेऽवस्थितपरिणामस्यानाकारोपयोगिनोऽपि चत्वार्यपि सामायिकानि सम्भवन्तीति न कश्चिद्विरोधः । अथ कोऽयमुपशमसम्यग्दृष्टिरित्याह--' ऊसरदेसे' त्यादि गाथा अतिप्रसिद्धत्वान्न विव्रियन्ते, भवत्वेवम्भूत उपशमसम्यग्दृष्टिः, अवस्थितपरिणामता तु कथमस्येत्याह— 'जं मिच्छस्से' त्यादिगाथा ( २४५-५), अस्या व्याख्या- 'यद्' यस्मात्कारणान्मिथ्यात्वस्यानुदयोऽतो न हीयते तस्य परिणामोऽन्तरकरणे वर्त्तमानस्य, हानिकारणमिथ्यात्वपुञ्जस्यानुदयाद्, वर्धतां तर्हति 10 चेदित्याह-यद्–यस्मात् तत्र वर्त्तमानस्य यद्दर्शनमोहलक्षणं सत्कर्म तदुपशान्तमतो न परिणामस्य वृद्धिरपि, अनिवृत्तिकरणे हि वर्त्तमानस्य मिथ्यात्वस्योपशमार्थं प्रतिक्षणमासीत् तस्य परिणामवृद्धिः, अन्तरकरणे तु प्रविष्टस्योपशमनीयाभावाद्दाह्याभावे वह्नेरिव कुतस्तस्य परिणामस्य वृद्धिः ?, यत एवं न हीयते नापि वर्द्धते तत्परिणामस्तेन कारणेनावस्थित इति गाथार्थ: । 'अन्यथे' त्यादि (२४७-६), एतदुक्तं भवति–प्रकरणादनुवर्त्तमानं चतुर्विधमपीह सामायिकं सम्बध्यते, अन्यथा - यदि तत्सम्बन्धो 15 नाभिप्रेतः स्यात्तदा सामान्येन नारकादयोऽपि द्वे त्रीणि वा सामायिकानि लभन्त एवेति किमर्थं 'उक्कोसजहन्नं वज्जिऊणे' त्यादि विशेषतो मनुष्यग्रहणगर्भमुत्तरार्द्धं कुर्यात्, सामान्यजीवाश्रितावगाहनाविचार एव हि कृतः स्याद्, विशेषतो मनुष्याश्रयावगाहनां विचारयति चेत्तस्मात्प्रकृतसामायिकचतुष्टसम्बन्ध एवाभिप्रेत इति निश्चेतव्यम् । 'मतिश्रुतज्ञानलाभचिन्तायामित्यादि (२४९११), अयमत्र' 'भावार्थ:- पूर्वं ज्ञानपञ्चकविचारे मतिश्रुतज्ञानयोः शुद्धास्वेव तिसृषु लेश्यासु लाभ 20 उक्तः इदानीं तु 'सम्मत्तसुअं सव्वासु लहइ'त्ति अनेन लेश्याषट्केऽपि तल्लाभ उच्यते इति कथं न पूर्व्वापरविरोध इति, अत्रोत्तरमाह — 'उच्यते ' इत्यादि (२५० - २), इयमत्र भावना - इह मनुष्याणां द्रव्यलेश्यादयोऽपि प्रत्यन्तर्मुहूर्त्तमपरापरा एव भवन्त्यतस्तेषां द्रव्यतो भावतश्च विशुद्धलेश्यात्रयोदय एंव सम्यक्त्वादिलाभो, देवनारकाणामपि भावतोऽपि शुद्धलेश्यात्रयोदय एव द्रव्यतस्तु लेश्याषट्कान्यतरलेश्योदयेऽपि सम्यक्त्वादिप्राप्तिः स्यादेव, तेषां हि 'काऊ काऊ तह काऊनील' 25 इत्यादिना आगमेन या द्रव्यलेश्याः प्रतिपाद्यन्ते ता आमरणान्तमवस्थिता एव न परावर्त्तन्ते, ननु द्रव्यलेश्या भावलेश्योपष्टम्भकर्त्री भवति, ततश्चाधः सप्तमपृथ्वीनारकादीनां संक्लिष्टकृष्णलेश्याद्युदये सदावस्थिते सति कुतो विशुद्धभावलेश्यासम्भव इति चेद्, उच्यते, तेषां हि गिरिसरिदुपलघोलनवैचित्र्यन्यायात् केनचिच्छुभोदयेन सत्यपि कृष्णलेश्याद्युदये शुक्लाद्यन्यतरविशुद्ध