Book Title: Avashyak Niryukti Part 03
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

View full book text
Previous | Next

Page 379
________________ ૩૬૮ મા મલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૩) मध्यतलप्रदेशे एकैकच्छिद्रयुक्ते, ततोऽसौ खड्गखेटकव्यग्रहस्तस्तिर्यकृतकाष्ठमध्यप्रदेशे स्थित्वा आकाशतलमुत्प्लुत्य सप्ताग्रतोमुखानि सप्त पश्चान्मुखानि प्रस्तावात्करणानि दत्त्वा ते कीलिके वारं २ पादुकानालिकायामिति–पादुकाच्छिद्रयोः प्रवेशितवानित्यर्थः । 'अभ्युत्थाने सती'त्यादि (३१४ ७), अत्र हेतुमाह-'विनीतोऽय'मित्यादि, यदा ह्यसौ साधूनामभ्युत्थानं-अभिमुखोत्थानलक्षणं 5 करोति तदा विनीतोऽयमिति निश्चित्य साधवस्तस्मै धर्मं कथयन्ति तत्कथनाच्चान्यतरसामायि कलाभोऽस्योपपद्यते, ननु च विनयोऽत्र पृथगुपात्त एव अभ्युत्थानमपि च विनयरूपं तत्किमस्य पार्थक्येनोपन्यासः ? इति, सत्यं, किन्त्वभ्युत्थानस्य प्रधानविनयाङ्गताख्यापनार्थं भेदेनोपन्यास इति न दोषः । 'देशविरतिप्रतिपत्तिपरिणामस्त्वि'त्यादि (३१५-९), अयमत्राशयः-सर्व्वविरते: सर्वसावद्ययोगविरतिलक्षणैकरूपत्वाद् झगित्येवैकसमयेनापि भवति कश्चित्प्रतिपत्त्यारम्भो, 10 देशविरतेस्त्वनेकरूपत्वाद् यावत्पर्यालोचयति केन रूपेणासौ मया प्रतिपत्तव्या तावदसौ' परिणामोऽन्तर्मुहूर्तेन निष्पद्यतेऽत उक्तं-देशविरतिप्रतिपत्तिपरिणामस्त्वान्तर्मुहूर्त्तिक एव, हेतुमाहनियमिता-नियता एव काचिद् द्वीन्द्रियवधादिनिवृत्तिलक्षणा या प्राणातिपातादिनिवृत्तिस्तद्रूपत्वाद्देशविरतेः, युक्तिमात्रं चैतत् तत्त्वं पुनः केवलिनो विदन्तीति । 'तित्थयरपवयणे'त्यादिगाथा (३१८-१०), अत्र प्रवचनशब्देन तदनन्यरूपत्वात्सङ्घो विवक्षितः, श्रुतं तु द्वादशाङ्गं आचार्यो 15 वैरस्वाम्यादि: गणधरस्तु गौतमादिः महर्द्धिकस्तु सामान्यसाधुरपि च आमर्वोषध्यादिलब्धयुक्त इति, शेषं सुगमम् । 'शोभनमसन'मित्यादि (३२६-३), कर्मणो जीवात्सकाशाद्यः क्षेपः स समास इति सम्बन्धः, कया ?-उपशमविवेकसंवरलक्षणपदत्रयप्रतिपत्तिवृत्त्या, समासे हि 'दमदंते मेयज्जे' इत्यादिगाथायां चिलातीपुत्र उदाहरणं भविष्यति स चोपशमादिपदत्रयप्रतिपत्तिवृत्त्या स्वकर्मप्रत्यासं करिष्यतीत्येवमुपन्यास इति । 'एएण रज्जं आयत्तं'ति (३३०-९) एष एव राज्यक्षमो न मत्पुत्रो 20 बालत्वादिति भावः । 'देवोवि मेत'मित्यादि (३३४-८), तेन देवेन मेतार्यप्रतिबोधनार्थं स मातङ्गोऽधिष्ठितः सन् रोदितुमारब्धः, 'खड्डाए छूढो' इत्यादि (३३५-२) मातङ्गगतयां प्रक्षिप्य तं मेतार्यं स्वकीयं रूपं प्रदर्श्य देवोऽभिहितवान्-भो मेतार्य ! पूर्वं तावदनेकधा प्रतिबोध्यमानो न प्रतिबुद्धस्त्वं, साम्प्रतं गर्ताप्रक्षिप्तः 'किह' त्ति कथं करिष्यसीति कथय, 'सो भणती'त्यादि (३३५ ३) ततः स मेतार्यस्तस्य देवस्य स्वरूपं ज्ञात्वा तमेवोक्तवान्-मातङ्गसुतोऽयमिति जनमध्ये 25 ममावर्णवादः समभूद् एतस्माच्चावर्णवादान्मां मोचय ततश्च द्वादश वर्षाणि गृहवासं परिपाल्य प्रव्रज्यां ग्रहीष्यामि ततश्च देवो वदति-'किं करोमी'त्यादि, शेषं सुगमम् । 'अभओ भणती'त्यादि (३३५-८), तं पशुमशुचिं व्युत्सृजन्तं दृष्ट्वा अभयकुमार उक्तवान्-अयं पशुस्त्वद्गृहे रत्नानि मुञ्चति नात्रेति देवानुभाव एवायं, किन्तु तथापि परीक्ष्यते, किहत्ति कथं परीक्षणीय इत्याहभणितोऽसौ मातङ्ग इति शेषः । 'तस्स एगाए वायाए'इत्यादि (३३६-९), तेन हि सुवर्णकारेण

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410