________________
૩૫૬ ના મલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૩) अमुख्यैव, तथा च तस्यामेव निर्गमप्रतिपादकगाथायां वृत्तिकृतोक्तम्-अत्र त्वधिकारः प्रशस्तभावनिर्गममात्रेणैव शेषैरपि निर्गमाङ्गत्वादिति, तस्मान्मुख्यतया प्रस्तुतसामायिकविषयत्वान्निर्गमान्तर्गतक्षेत्रकालयोः सामान्यरूपतैवेति, यद्येवं भावनिर्गमोऽपि तर्हि नेह वक्तव्यो यतो निर्गमप्रतिपादकगाथायां भावनिर्गमो भावपुरुष एवाभिप्रेतः, तथा च तत्र वृत्तिकारेणोक्तम्-इह च क्षेत्रं महसेनवनं कालः प्रथमपौरुषीलक्षणो भावश्च भावपुरुष इति, स च भावपुरुषो ‘दव्वाभिलावचिन्धे' इत्यादि गाथायां वक्ष्यति । 'अथवा भावेत्ति-भावनिर्गमप्ररूपणा-यामधिकृताया'मित्यादि (७२-१०), भवताऽपि चोक्तं क्षेत्रकालपुरुषाणां निर्गमाङ्गता व्याख्यातैव, न पुनरिदं त्वयाऽप्युक्तंक्षेत्रकालभावानां निर्गमाङ्गता प्रतिपादितैवेति, तदेवं भावनिर्गम-प्रतिपादनमिहासङ्गतमेव, सत्यं,
किन्तु निर्गमप्रतिपादकगाथायां यदुक्तं भावश्च भावपुरुष इति, अत्र तु यदा भावेन क्षायिकादिना 10 उपलक्षितः पुरुषो भावपुरुषः इति व्युत्पत्तिः क्रियते तदा 'खइयम्मि वट्टमाणस्से निग्गय'मित्यादिना
क्षायिकभावोपलक्षितमहावीरलक्षणपुरुषान्निर्गतमिदं सामायिकमित्यादिप्ररूपणं न किञ्चिद्विरुध्यते, यदा तु भावपुरुष इति शुद्धपुरुष इति व्याख्यायते तदा ‘दव्वाभिलावचिन्धे' इत्यादिगाथाप्रतिपादित एव भावपुरुष इति न दोषः, इदं चात्र पुरुषद्वयमप्यभिप्रेतं लक्ष्यते, 'खइयम्मि
वट्टमाणस्से'त्यादिगाथोपन्यासाद् दव्वाभिलावेत्यादिवक्ष्यमाणत्वाच्चेत्यलं प्रसङ्गेन, अत्र च 15 निर्गमद्वारव्याचिख्यासयेत्यस्यानन्तरं क्वचिदाहशब्दस्य पाठो दृश्यते स चाशुद्ध एव लक्ष्यते।
'तन्तुसंयोगे'त्यादि (७४-६), तन्तुसंयोगा असमवायिन इति योगः, पटस्येति गम्यते, हेतुमाहपटाख्यं यत्कार्यरूपं तन्त्वपेक्षया द्रव्यान्तरं तस्माद्दूरवर्त्तित्वाद्, एतदपि कुत इत्याह-कारणं यत्तन्तुरूपं द्रव्यान्तरं च तत् पापेक्षया, तद्धर्मत्वात्संयोगानां, यो ह्यन्यधर्मः सोऽन्यस्य दूरत एव भवति,
संयोगाश्च द्वयादितन्तुमीलनरूपास्तन्तुधर्मत्वात्पटाख्यकार्यस्य दूरवर्त्तिन इत्यसमवायिकारणरूपाः । 20 'निर्व] चे'त्यादिकारिका (७५-६), अस्या व्याख्या-निर्वर्त्य विकार्यं प्राप्यं वा यथाक्रम
ओदनकाष्ठभास्करादिकं वस्तु क्रियाफलं 'कर्तुरीप्सितं' (पा-१-४-४९) क्रियाविषयत्वेनेष्टमित्यर्थः तत्कर्म भवतीति योगः, कथम्भूतं ?–दृष्टादृष्टसंस्कारं निर्व] विकार्ये वा कटदिकर्मणि शलाकारचनादिः कश्चिद् दृश्यते संस्कारो न प्राप्ये आदित्यं पश्यतीत्यादाविति तदृष्टादृष्टसंस्कारं, अनया च कारिकया
निर्वर्तनादिक्रियाविषयत्वेनेष्टमेव कर्म भवतीति प्रतिपादितमिति प्रकृते उपन्यस्ता । 'तथा 25 सम्प्रदानमि'त्यादि (७५-८), कुम्भकारादिना निष्पद्यमानस्य घटस्य सम्प्रदानं-जनपदस्तस्य
जनपदलक्षणस्य सम्प्रदानस्य कर्मणा-कार्येण घटलक्षणेन करणभूतेनाभिप्रेतत्वादित्सया व्याप्तत्वाद्, यदि नाम घटदित्सया जनपदलक्षणं सम्प्रदानं व्याप्तं तथापि कथं जनपदलक्षणस्य सम्प्रदानस्य घटं. प्रति कारणता इत्याह-'तं सम्प्रदानविशेषमन्तरेण तस्य घटस्याभावात्' (७५-९), .यदि हि