________________
પરિશિષ્ટ-૧ ૨ ૩૫૫ चारित्राद्यभ्युपगमादिति भावः । 'बीयं दुतीयाईए' गाहा (६७-९), अस्या व्याख्या-द्वितीयं तथा व्यादींस्त्र्यादींश्च भङ्गान् वर्जयित्वा शेषा भङ्गा यथाक्रमं औदयिकऔपशमिकक्षायिकभावेषु द्रष्टव्याः, 'बीतयं सेसे'त्ति शेषे-क्षायोपशमिकपारिणामिकभावद्वये द्वितीयवर्जास्त्रयस्त्रयो भङ्गा भवन्ति, एतेषां भङ्गानां विषयमाह-'भवमिच्छे'त्यादि (६७-९), अयमत्र भावार्थ:- इह सादिः सपर्यवसान इति प्रथमो भङ्गः सादिरपर्यवसान इति द्वितीयः अनादिः सपर्यवसान इति तृतीयः 5 अनादिरपर्यवसान इति चतुर्थः, तत्र द्वितीयं वर्जयित्वा शेषास्त्रय औदयिके भवन्ति, एतेषां च विषयः प्रथमभङ्गस्य भवो नारकादिः, शेषभङ्गद्वयस्य तु वृत्तिकारोक्तनीत्या विषयो मिथ्यात्वं,
औपशमिके तु द्वयादिभिर्वर्जितैराद्य एवावशिष्यते, तस्य च विषयः सम्यक्त्वं, क्षायिकस्य तु त्र्यादिभिर्वज्जितैराद्यभङ्गद्वयमवशिष्यते, यतोश्च यथासङ्घयं वृत्तिकृदुक्तनीत्या चरणं सम्यक्त्वं च विषयः, क्षायोपशमिके तु द्वितीयवर्जास्त्रयो भङ्गा भवन्ति, तत्र प्रथमभङ्गस्य चत्वारि ज्ञानानि 10 विषयः शेषभङ्गद्वयस्योक्तनीत्या 'इयर'त्ति अज्ञानं विषयः, पारिणामिके तु द्वितीयवर्जास्त्रयो भङ्गाः, तेषां यथासङ्ख्यं परमाण्वादयो भव्यत्वं च विषय इति गाथार्थः। 'तस्याद्धाकालस्वरूपत्वा'दिति (६८-७), प्रमाणकालो हि दिवसरात्रिलक्षणोऽद्धापर्याय एव पर्यायश्च भाव एवेति भावार्थः । 'गतं मूलद्वारगाथे'त्यादि (६९-७); ननु ‘पथं किर देसित्ता'इत्यादिना यावद्गणधरवक्तव्यता समाप्ता तावन्महावीरलक्षणस्य गणधरलक्षणस्य च द्रव्यस्य मिथ्यात्वादिभ्यो निर्गमं प्रतिपादयता द्रव्यनिर्गम: 15 समर्थितो भवति, क्षेत्रकालभावरूपस्तु निर्गमोऽद्याप्यव्याख्यात एव, ततश्च तस्मिन् तृतीये द्वारेऽसमाप्ते किमिति 'उद्देसे निद्देसे य निग्गमे'त्यादिमूलद्वारगाथायाश्चतुर्थपञ्चमद्वाररूपौ क्षेत्रकालौ व्याख्यातावित्याशङ्कयाह–'इह च क्षेत्रकाले 'त्यादि, क्व निर्गमाङ्गता क्षेत्रादीनां व्याख्यातेति चेदुच्यते-"नामं ठवणा दविए खेते काले तहेव भावे अ । एसो उ निग्गमस्सा निक्खेवो छव्विहो होई" (१४५)त्ति अस्यां गाथायां, अयं चात्र भावार्थ :-इह निर्गमान्तर्गतौ क्षेत्रकालौ 20 सामान्यौ, सर्वस्यापि वस्तुनो निर्गमे विचार्येऽनयोरवतारात्, मूलद्वारगाथान्तर्गतौ च क्षेत्रकालौ प्रस्तुतसामायिकविषयत्वेन महसेनवनप्रथमपौरुषीरूपत्वाद्विशेषरूपौ, विशेषे च व्याख्याते सामान्य व्याख्यातमेव भवतीति प्रस्तुतावपि निर्गमान्तर्गतौ क्षेत्रकालौ विहाय विशेषरूपत्वान्मूलगाथाप्रतिबद्धौ व्याख्यातवान् सूरिः, तद्वयाख्याने च सामान्यरूपनिर्गमान्तर्गत-क्षेत्रकालव्याख्या कृतैव भवति, एवं च लाघवसिद्धिः स्याद् अतो नामस्थापनाद्रव्यरूपो निर्गमः पूर्वं व्याख्यातः क्षेत्रकालौ तूक्तनीत्या 25 व्याख्यातौ, अतो भावनिर्गम एवावशिष्यते, तमिदानी व्याख्यानयति, स्यादेतद्-यथामूलगाथान्तर्गतक्षेत्रकालयोः प्रस्तुतसामायिकविषयत्वेन विशेषरूपता तथा निर्गमस्यापि कस्मानेष्यते ?, तस्यापि तद्विषयत्वान्मूलद्वारगाथापठितत्वात्, तदयुक्तं, अभिप्रायापरिज्ञानाद्, भावनिर्गम एव. ह्यत्र प्रस्तुतसामायिकविषयतयाऽभिप्रेतो द्रव्यादीनां तु तदुपकारित्वमात्रादेव निर्गमान्तर्गतता