________________
भसघारी डेभयन्द्रसूरिकृत टीप्पाड (भाग-3)
शय्यानैषेधिक्यां बहिस्तात्प्रविशन् साधुः शेषसाधून् प्रति ब्रूते - भोः साधवः शय्यानैषेधिक्यां यदागमनं तत्प्रत्यभिमुखोऽहं, कया यदागमनं ? - ' नैषेधिक्या' नैषेधिकीशब्देन चेहोपचारान्निषिद्धात्मनः सम्बन्धि शरीरमुच्यते अतः शरीरेणागमनं प्रत्यभिमुखोऽहं संवृतगात्रैर्भवद्भिर्भाव्यमित्युक्त्वाऽवश्यंकर्त्तव्यसंयम-व्यापारपरिपालनाय वसतौ प्रविशति आवश्यक्यामप्यवश्यंकर्त्तव्ययोगा एव 5 क्रियन्त इत्येकार्थता । ' अथवे ' त्यादि ( ३९ - १४), ननु पूर्व्वार्द्धेनापि नियमनिषिद्ध आवश्यकयुक्तः एवेत्युक्तमुत्तरार्द्धेऽपि तदेव तत्कोऽत्र विशेष: ?, सत्यं - किन्तूत्तरार्द्धे निषिद्धात्माऽपीत्यत्र अपिशब्दाक्षिप्तं पक्षान्तरं द्रष्टव्यं, किन्नु तद् ?, उच्यते, आवश्यकी तावदावश्यकयुक्तस्यैव भवति, निषिद्धात्माऽपीत्थम्भूत एव, पूर्वार्द्ध त्वयमेवार्थो व्यत्ययेनोक्त इति भेदः । तत्राऽऽस्तां तावद्गृहस्थोपसम्पदि 'ति (४१-५), उपरि वक्ष्यमाणत्वादित्यभिप्रायः । 'गाथाद्वयं निगदसिद्धमेवे 'ति (४४-४), अत्र 10 सार्द्धगाथया वर्त्तनासन्धनाग्रहणस्वरूपमुक्तं, द्वितीयगाथापश्चार्द्धेन तु प्रसङ्गाद् अर्थग्रहणविधिमभिधि-' त्सुरुत्तरग्रन्थसम्बन्धनायाहा - अर्थग्रहणे प्राय एषः - वक्ष्यमाणो 'मज्जणनिसिज्जे' (४४-६) त्यादिको विधिर्भवति ज्ञातव्यः, प्रायोग्रहणात्सूत्रमपि प्रमार्जितभूमावध्येतव्यमित्यादि सूत्रगतमपि कञ्चिद्विधि सूचयति । अधिकृतविधिः - व्याख्याविधिस्तत्प्रतिपादनार्थं 'मज्जणनिसेज्जेत्यादि द्वारगाथा (४४-६), अस्या व्याख्या - प्रमार्जनं निषद्या :- अक्षाः व्याख्याकर्तुः कृतिकर्म विघ्नोपशान्तये 15 अनुयोगारम्भाय कायोत्सर्गे यश्च व्याख्यावसाने चिन्तनिकां कारयति स इह ज्येष्ठो विवक्षितः तस्मै यद्वन्दनकं एतेषां प्रत्येकं विधिर्वक्तव्यः, आह- ननु ज्येष्ठः किं पर्यायेण उत लघुरपि व्याख्यालब्धिसम्पन्नो भाषक इह ज्येष्ठ इत्याशङ्कयाह - भाषमाण इह ज्येष्ठो न पर्यायतोऽतस्तं लघुमपि भाषकं वन्दध्वम्, एतच्च स्वयमेव सप्रपञ्चं वक्ष्यतीति गाथार्थ: । 'गुरुपरितोषजातेने 'ति (४६-८), गुरौ परितोषो जातोऽस्येति विग्रह: । 'प्रत्युच्चारक श्रवणस्ये' ति ( ४७ - ३), प्रत्युच्चारणं प्रत्युच्चार:- चिन्तनिका 20 तद्रूप श्रवणस्याभावादिति । 'अन्यभावादिपरिग्रह ' इति (५१ - ३) - एतदुक्तं भवति-यदि स्वगच्छे अन्यस्य वैयावृत्त्यकर्त्तुः साधोर्भावः - सत्ता भवति तदाप्यन्यत्र गच्छति, स्वगच्छे अन्येनैव साधुना वैयावृत्त्यकरणात् । ‘तथा नापूरयन्नित्यादि (५४-९), अपूरयन्नेव यदा वर्त्तते तदैव सारणा विसग्ग
इत्येवं न इति योगः । सामाचारी समाप्ता । अथ अज्झवसाणं 'सावि तं पलोयंती 'त्यादि (५७३), यावदेषा निषिद्धापि न तिष्ठति तावदसौ तथैव तामुदकं प्रक्षिपन्तीं विहाय गतस्तत: सा. 'ताहे 25 पयोयत्तेति 'त्ति तावत्प्रवर्तितवती भूमौ करकेणोदकमिति गम्यते यावदसौ अदृश्यो जातः, 'ओयल्ल' ि मृता । 'मोक्खाणासासयादोस त्ति (६२-६), यदि कम्र्म्मोपक्रम्यते अप्राप्तकालमपि तर्ह्यक्तनीत्याऽकृतागमकृतनाशौ प्राप्नुतः ततश्च मोक्षेऽप्यनाश्वासः, अकृतस्यापि सिद्धानां कर्मण आगमनप्रसङ्गात्संसारप्राप्तेः कृतनाशाच्च सर्व्वसंसारिणां मुक्तिप्राप्तेरितिभावः, उत्तरमाह - ' न ही 'त्यादि, अग्निकरोगो - भस्मक व्याधिः । 'अन्ये तु द्वितीयभङ्ग इत्यादि ( ६७-३), सिद्धानामपि
૩૫૪