________________
પરિશિષ્ટ-૧ ૨ ૩૫૩ (२५-३), सुहृद्भूता-स्निग्धा स्वजनभूता 'आदेसादिअप्पडितप्पणे'त्यादि (२६-१), आदेश:प्राघूर्णकः तस्य तप्त्या, यदा ह्याचार्यो भक्तपानाद्यानयनवस्त्रसीवनादिषु व्यग्रो भवति तदा दोषानाह'सुत्तत्थेसु अ' गाहा (२६-२), सूत्रार्थयोरचिन्तनं आदेश:-प्राणूंणकस्तस्य स्वागतं न कश्चित्करोति, वृद्धशिक्षकग्लानक्षपकादीनां च न कश्चित्तप्तिं करोति, यदि त्वाचार्यो वैयावृत्त्यव्यग्रो न भवति ततस्तान् परतः स्वतो वा उपचरत्येव । 'बाले'त्ति (२६-३), व्याल:-सर्पस्तेन यदि कश्चित्संयतो 5 दश्यते तदा पानकाद्यानयनाय गते सूरौ तदुपचारज्ञाभावात्कस्तमुपचरति ?, एवं वृत्तावपि यदुक्तं 'बाले सप्पभए' तदनन्तरोक्तविधिनैव व्याख्येयं । 'इड्ढीमाई अणिड्डिय'त्ति (२६-३), ऋद्धिमतिसामान्ये सार्थवाहादौ आदिशब्दाद्राजामात्यादौ वादिनि च समायाते सौगतादौ यो दोषो-लाघवलक्षण: स वृत्तिकारेणैवोक्तः अनृद्धिमतस्तु व्रताद्यर्थे समायातस्य आचार्यमपि वैयावृत्त्ये नियुक्तं दृष्ट्वा विपरिणामादयो दोषा इति गाथार्थः । 'प्रागुक्तं दुष्कृतकारण'मिति (२८-१२), अस्या एव 10 गाथायाः प्रथमपादे 'जं दुक्कडंति मिच्छे'त्यनेन यदुपात्तमित्यर्थः । 'सम्बद्ध एव ग्रन्थ' इति (२८१३), यथास्या गाथायाः पर्यन्ते पठ्यते तथैवेह योज्यते, द्वितीयव्याख्याने तु मिथ्याशब्दस्य पूर्वनिपातः करिष्यत इति भावः । 'न ह्यसावप्यवश्यं कर्तव्ये 'त्यादि (३४-१), अयमभिप्राय:कृतनैषेधिकीकोऽपि अवश्यं कर्त्तव्यव्यापारान् करोत्येव कृतावश्यकीकोऽपि तानेव करोतीति कथं नैकार्थतेति । 'शेषकालमपी'त्यादि (३५-१०), स्थानस्थितस्यापि सदनुष्ठानव्यावृत्तस्यावश्यकी 15 द्रष्टव्येत्यर्थः । 'अथवा चेतयत'इत्यादि (३६-७), ननु पूर्वं शयनमनुभवतीति व्याख्यातं अत्र तु करोतीति व्याख्यायते, शय्याकरणं च नावश्यमनुभवत एव, हस्तगृहीतसंस्तारकस्यापि तदुपचारदर्शनात्तत्कथमस्य व्याख्यानस्य पूर्वस्मान्न भेद इत्याशङ्कयाह-'शयनक्रिया'मित्यादि (३६८), 'प्रतिक्रमणाद्यशेषे'त्यादि (३७-२), शय्यां स्थानं च यत्र चेतयते तत्र स्थाने नैषेधिकी भवतीति सम्बन्धः, कथम्भूतः सन्नित्याह–'प्रतिक्रमणे' त्यादि, कथम्भूते स्थाने ? इत्याह- 20 ‘एवंविधे'त्यादि-एवंविधावश्यककरणगुर्वनुज्ञारूपा यतीनां या स्थितिक्रिया तया विशिष्टे, इदं तु यतेः सम्भवदपि विशेषणमुपचारतः स्थानस्योक्तम् । 'अनेने 'त्यादि (३७-८), अनेन ‘एगग्गस्स पसंतस्से'- ( ३४-५) त्यादिना ग्रन्थेन मूलगाथायाः ‘आवस्सिइं च नितो' (३३-३) एतल्लक्षणायाः, 'एतावदिति (३७-९), उक्तपादत्रयं व्याख्यातमिति योगः, किं कृत्वा ?स्थितिरूप-नैषेधिकीप्रतिपादनमधिकृत्य, कथम्भूतं तत्प्रतिपादनं ?-व्यञ्जनं-शब्दस्तद्भेदे निबन्धनं- 25 कारणं, एतदुक्तं भवति-गमनरूपा पूर्वं तावदावश्यकी प्रतिपादितैव, यदा त्वनन्तरं 'सेज्जं ठाणं च जहिं' इत्यादिना स्थितिरूपा नैषेधिकी प्रतिपाद्यते तदाऽसौ व्यञ्जनभेदनिबन्धनं भवत्येव, गमनस्थितिरूपस्य भेदस्य व्यञ्जनभेदनिबन्धनत्वात्, 'शय्यैव नैषेधिकी'त्यादि (३८-८), शय्यावसतिः सा च निषिध्यन्ते तस्यां प्रविशद्भिर्बहिः संजातातिचारा इति कृत्वा नैषेधिकीत्युच्यते, तस्यां