________________
૩૫ર & મલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૩)
परिशिष्ट - १ श्रीमन्मलधारगच्छीयश्रीमद्धेमचन्द्रसूरिरचितं हरिभद्रीयावश्यकवृत्तिटीप्पणकम्
अथ क्षेत्रादिगणभृद्(गणभृत्क्षेत्रादि)वक्तव्यता आह-ननु मण्डिको ज्येष्ठो मौर्यस्तु. लघुतरो, 5 गृहवासप्रतिपादकगाथायां तु ज्येष्ठस्य त्रिपञ्चाशद्वर्षाणि गृहवास उक्तो लघुतरस्य तु पञ्चषष्टिः दीक्षा
द्वयोरप्येकस्मिन्नेव दिने तत्कथं न विरोधः, सत्यं, किन्तु तत्त्वमिह केवलिनो विदन्ति, केवलं. गणभृन्नामप्रतिपादकगाथायां व्यत्ययपाठे गृहवाससर्वायुष्कप्रतिपादिकासु वा गाथासु च व्यत्यते सति सर्वं सुस्थं भवति, धनदेवे पञ्चत्वमुपागते मौर्येण गृहे धृता इति वृत्त्यक्षराणां मौर्ये पञ्चत्वमुपगते
धनदेवेन धृता इति व्यत्यते वा सति सुस्थं भवति, तत्तु न क्रियते विशिष्टसम्प्रदायाभावादिति. ॥ 10 'तीसाबारसे' त्यादि (६-३) गाथा सुगमत्वेन वृत्तौ न विवृता, तत्र चउदसदुगं चेति पाठस्तत्र द्वौ
वारौ चतुर्दशेति द्रष्टव्यं । 'वर्तनादिलक्षण'इति (७-१२), वर्तना-द्रव्यस्थिति; आदिशब्दात्प्रतिक्षणभावी परिणामः । 'एकः कालशब्दः प्रागि'ति (८-४), 'उद्देसे निद्देसे य' गाथायां । 'देवस्कन्धादे 'रिति (८-१२), सचेतनस्य-देवादेः अचेतनस्य-व्यणुकस्कन्धादेः अथवा 'चेतनस्येत्यादि' पूर्वे समस्तं
पदं अत्र तु चेतनमित्यत्रापि षष्ठी द्रष्टव्या, ततो व्यस्तं पदद्वयमिति पूर्वव्याख्यानाद्भेदः । 'अथवा 15 द्रव्यं तु तदेवेति (९-२), 'कालश्चेत्येके' (तत्त्वा० अ० ५ सू० ३८) इतिवचनादेकीयमतेन
कालस्याभावादिति भावः। 'वर्तनादिमयो यथायुष्ककाल' इति (११-३), ननु, च द्रव्यकालोऽपि वर्त्तनादिमय एवोक्तस्तत्कथं न सङ्कीर्णता ?, सत्यं, किन्तु स द्रव्याणां सामान्येन अयं त्वायुष इति विशेषः । अथ सामाचारी व्याख्यायते, – 'काले-कालविषया सामाचारीति' (१४-५), इयं
सर्वाऽपीच्छाकारादिका सामाचारी कालविषया-प्रस्तावनियता कस्याश्चित्कस्मिंश्चित्प्रस्तावे क्रियमाण20 त्वात्। 'अपिधशब्दार्थ' इति (१५-३), 'तत्थवि इच्छाकारो' (१४-१०) इत्ययमपिशब्दश्चशब्दार्थे,
स चानुक्तं समुच्चिनोति, ततश्च यद्यभ्यर्थयेत परं अनभ्यर्थितो वा तस्य कश्चित्किञ्चित्कुर्यादितीच्छाकारस्य विषयद्वयं दर्शितं, चशब्दसमुच्चितस्त्वपरोऽपि विषयः 'अहवा सयं करन्तं' इत्यादिना (१९-१) दर्शयिष्यत इत्ययमत्र भावार्थः । “एगस्स साहुस्स लद्धी अत्थि'त्ति (२३-१२),
भक्तपानलाभवस्त्रसीवनादिलक्षणा, “एवं चेव विराहेति'त्ति (२४-६) एवमेव लब्धिर्विद्रास्यति 25 अकृतकार्यत्वादित्यभिप्रायः । कुटी-बृहत्तरा पड़ाली-लघुतरकुटीति (२४-९) । 'सोहिया वत्ति'
* પ્રથમ અંક પાના નંબર અને બીજો અંક પંક્તિ નંબર સૂચવે છે.