________________
પરિશિષ્ટ-૧ ૩૫૭ निर्वर्त्यघटो यस्मै दातव्यः स एव जनपदादिर्न स्यात्तर्हि घटस्याकरणमेव श्रेयः, अतो घटक्रियाऽन्यथानुपपत्तेः कारणमेव सम्प्रदानं, प्रयोगश्चात्र-यो यमन्तरेण न संभवति स तस्य कारणं, यथा घटस्य मृत्पिण्डो, न च भवति कर्तृकरणकर्म-सम्प्रदानापादानाधिकरणकारक षट्कान्तर्गतैकतरस्याप्यभावे घटादि कार्यजातं, तस्मात्षण्णामपि कारकाणां कार्ये प्रति कारणताऽभ्युपगन्तव्या। ‘मतिश्रुते त्वि' त्यादि (८२-११), बाह्यलिङ्गरूपं यदिन्द्रियलक्षणं कारणं 5 तदपेक्षणात्परोक्षत्वेन विशिष्टप्रत्ययत्वाभावान्ौतयोर्ग्रहणमिति भावः, अवध्यादीनां भवति प्रत्यक्षताऽनयोर्नेत्यत्र का युक्तिरित्याद्यत्र बहुवक्तव्यं। 'द्वयोर्द्वयोरित्यादि (८५-१), यत्र पूर्वे विशेषणमुच्चार्य ततो विशेष्यमुच्चार्यते सा आनुकूल्येन गमनाद्गतिरुच्यते व्यत्ययोच्चारणे त्वागतिः एताभ्यां च जीवादिपदार्थस्वरूपं लक्ष्यते-विचार्यते इतिकृत्वा लक्षणमेते भवतः । 'रूवी घडो 'त्ति गाहा (८६-६), 'नीलोत्पलं चेति, चशब्दोऽप्यर्थे तस्य च व्यवहितः सम्बन्धः, ततश्च न 10 केवलमिह सिद्धान्ते, लोकेऽपि विकल्पनियमादयो भङ्गाः पूर्वपदव्याहतादिस्वरूपा भणिता इति योगः, विकल्पे-एकस्मिन् पक्षे नियमो यस्य स विकल्पनियमः स आदिर्येषां उभयानियमोभयनियमानां ते तथा, तत्र रूपी घट इति पूर्वपदव्याहतः, कथमिति चेदुच्यते-घटो रूप्येव, रूपी पुनर्घटः पटो वा भवति, एवं शेषभङ्गेष्वपि भावना कार्या, चूतो द्रुम इत्युत्तरपदव्याहतः, नीलोत्पलमित्युभयपदव्याहतः, जीवः सचेतन इत्युभयपदाव्याहतः, अत्राद्यौ विकल्पनियमौ तृतीय उभयानियमः चतुर्थस्तूभयनियम 15 इति गाथार्थः । द्रव्यतो नानाता दर्शिता क्षेत्रकालभावनानातां त्वतिदिशन्नाह–'एवमेकादिप्रदेशे'त्यादि(८६-११), तत्र क्षेत्रतस्तद्रव्यनानाता-एकप्रदेशावगाढानां परस्परतो भिन्नता अन्यद्रव्यनानातात्वेकप्रदेशावगाढस्य द्विप्रदेसावगाढादिभ्यो भिन्नता कालतस्तद्र्व्यनानाता-एकसमयस्थितीनां परस्परतो भिन्नता अन्यद्रव्यनानाता त्वेकगुणकालकस्य द्विगुणकालकादिभ्यो भिन्नतेति भावनाऽत्र द्रष्टव्या । भोमसुमिणगाहा (८७-३) भौम-भूकम्पादि स्वप्नः प्रतीतः आन्तरिक्षं-गान्धर्व नगरादि दिव्यं- 20 व्यन्तरादिकृतमट्टट्टहासादि आर्क-शिरःस्फुरणादि स्वरनिमित्तं तु 'सज्जं रवइ मयूरो' इत्यादिलक्षणं स्त्रीपुरुषादीनां सामुद्रिकप्रतिपादितं व्यञ्जनं-मषतिलकादि, एतच्चाष्टप्रकारमपि लक्षणं भवति अनेनापि शुभाशुभस्य लक्ष्यमाणत्वादिति । 'तथा लक्षणमिद'मिति (८८-६), तथाशब्दो द्रव्यलक्षणापेक्षो यथाऽनन्तरोक्तं द्रव्यलक्षणं तथा भावेऽपि लक्षणं इदमिति, यद्वृत्तावुक्तं तथा 'भावानामौदयिकादीना'मित्यादिना, एतच्च चेतसि व्यवस्थितमिदमा व्यपदिशति नियुक्तिकृद्, 25 अत एव च 'अहवावि भावलक्खण'मित्यत्र अथवाशब्द उपपन्नो भवति, अन्यथा हि पूर्वे पक्षान्तरस्य भावलक्षणे दर्शितत्वान्निरर्थक एव स्यादिति । 'निलयनप्रस्थके'त्यादि (९१-७), तत्र निलयनं वसनमित्यनर्थान्तरं, तद्दृष्टान्तो यथा-कश्चित्केनचित्पृष्टः क वसति भवान् ?, स प्राह-लोके तत्रापि जम्बूद्वीपे तत्रापि भरतक्षेत्रे तत्रापि मध्यमखण्डे तत्राप्येकस्मिन्जनपदे नगरे गृहे इत्यादीन्सर्वानपि