________________
भसधारी डेभयन्द्रसूरिमृत टीप्पाड (भाग-3)
विकल्पान्नैगम इच्छति, प्रस्थको - धान्यमानविशेषस्तद्दृष्टान्तो यथा - तद्योग्यं काष्ठं वृक्षावस्थायामपि तदनुकीर्त्तिकं स्कन्धे कृतं गृहमानीतमित्यादि सर्व्वास्वप्यवस्थासु नैगमः प्रस्थकमिच्छति, ग्रामोदाहरणं यथा-विवक्षितग्रामवास्तव्यप्रधानकतिपयपुरुषदर्शनेऽपि ग्रामोऽसावितीच्छति नैगमः । ' भमराइ गाहा' - (९३-१०), इह भ्रमरकोकिलादिः कृष्णतयोपलभ्यमानोऽपि निश्चयमतेन पञ्चवर्णः, 5 शेषवर्णचतुष्टयं हिन्यग्भूतत्वात्तत्र न दृश्यते न पुनर्नास्तीति प्रतिपद्यतेऽसौ तथा प्रज्ञप्तिः - 'भमरे णं भंते ! कइवण्णे कइगंधे कइरसे, कइफासे ?, गोतमा — इत्थं दो नया कज्जंति, तंजहा - निच्छयनए य वावहारियनए अ, वावहारिअनयस्स कालए भमरे, निच्छयनयस्स पंचवण्णे दुगंधे पंचरसे अट्ठफासे इत्यादि, एवं नीललोहितपीतशुक्लतया व्यवहारतोऽवगतेष्वपि वस्तुषु निश्चयतः पञ्चवर्णताऽवगन्तव्या, तदेवं भ्रमरादौ निश्चयनयमतेन पञ्चवर्णे निश्चिते सति व्यवहारस्य को 10 निश्चयार्थ इत्याह- 'सो विणिच्छयत्थो 'ति ( ९४ - १ ), स विनिश्चयार्थ इति ज्ञेयः क इत्याहयत्तदोर्नित्याभिसम्बन्धाच्छेषवर्णेषु सत्स्वपि यः कृष्णोऽयमित्यादिरूपो विनिश्चयः समुत्पद्यत इति गम्यते, 'जम्मि वा जणवयस्स अत्थे'ति, विनिश्चय इतीहापि सम्बध्यते, ततश्च यस्मिन्वा कस्मिँश्चिदर्थे जनपदस्यगोपालाङ्गनादिरूपस्य नामथापनाद्रव्यभावानामन्यतररूपेण अतीतानागतवर्त्तमानान्यतररूपेण वा निश्चयः समुत्पद्यते स विनिश्चयार्थः, किमुक्तं भवतीति तात्पर्यार्थमाह- 'जो 15 गेज्झो 'त्ति, अन्येषु सत्स्वपि बहुष्वशेषगोपालाङ्गनादिजनपदस्योद्भूतशक्तितया यो ग्राह्योऽंशः स विनिश्चयार्थः तदर्थं व्रजति व्यवहार इति गाथार्थः । यस्मिन्नेवांशे जनपदस्य निश्चयो भवति किमित्यसौ तमेव गमयति सतोऽपि शेषांशान्मुञ्चतीत्याह - 'पहुतरउत्ति य इत्यादि, स एव बहुतरांशो यत्र जनपदस्य निश्चय उत्पद्यत इति तमेवांशं गमयति-व्यवहारपथमवतारयति, येषु त्वंशेषु लोकस्य निश्चयो न भवति तान्सतोऽपि मुञ्चति व्यवहारो नयः, किं कुर्व्वन् ? लोकं लोकव्यवहारमिच्छन्, 20 कया ? - संव्यवहारपरतया, संव्यवहारस्वरूपत्वादेव तस्येति गाथार्थ: । 'प्रति प्रति वोत्पन्नमिति (९४-७), एकैकं स्वामिनमाश्रित्योत्पन्नं, एतदेवाह - 'भिन्नव्यक्ती 'त्यादि, भिन्ना व्यक्तयः-स्वामिन्यो यस्य तत्तथाभूतं, ऋजुसूत्रो हि वर्त्तमानक्षणभाव्येव वस्त्विच्छति तदपि भिन्नव्यक्तिस्वामिकं, तन्मतेन हि यद्देवदत्तस्य वित्तं तद् यज्ञदत्तस्यावित्तमेव, तदपेक्षया वित्तकार्याकारणाद्, यज्ञदत्तस्यापि यद्वित्तं तद्देवदत्तस्याप्यवित्तमेव तत एव हेतोः, तस्माद्वयोरपि वित्तयोर्भिन्नस्वाम्यपेक्षयैव वित्तत्वमिति 25 भिन्नव्यक्तिस्वामिता । 'ऋजुसूत्रः ऋजुश्रुतो वे 'ति (९४-८), शब्दद्वयस्य यथाक्रमं व्युत्पत्तिमाह'तत्र ऋजु-वर्त्तमान'मित्यादि । 'नामस्थापनाद्रव्यविरहेण समानलिङ्गवचने त्यादि (९५-५), लिङ्गं च वचनञ्च लिङ्गवचने समाने लिङ्गवचने येषां ते च ते पर्यायध्वनयश्च - इन्द्रः शक्रः पुरन्दर इत्यादयस्तद्वाच्यत्वेन च, तदनेनातिक्रान्तवक्ष्यमाणनयद्वयाद्भिन्नताऽस्य सूचिता, अतिक्रान्तनयो ि नामादिचतुर्विधमपि भिन्नलिङ्गवचनपर्यायध्वनिवाच्यमेव च वस्त्विच्छति अयं तु भावरूप
૩૫૮