________________
પરિશિષ્ટ-૧
૩૫૯
समानलिङ्गवचनपर्यायध्वनिवाच्यमेव च तदिच्छतीत्यनयोर्भेदः, वक्ष्यमाणस्त्वेकस्मिन्वस्तुन्येक व ध्वनिः प्रवर्त्तते न समानलिङ्गवचना अपि बहव इत्यभिमंस्यते, अतो नयद्वयादप्यस्य भिन्नता, एवमन्येष्वपि नयेषु विशेषणानि यथासम्भवं पूर्वोत्तरनयभिन्नतासूचकत्वेन द्रष्टव्या । 'तस्यार्थपरिग्रहादि'त्यादि (९५-६), तस्य - प्राधान्येनाङ्गीकृतशब्दस्य वाच्यत्वेन सम्बन्धी योऽर्थो घटादिलक्षणस्तं परिगृह्णाति, नयो- ज्ञानविशेष इत्युपचारात्सोऽपि ज्ञानस्वरूपो नयः शब्द इत्युच्यते । 5 'न च भिन्ने-त्यादि (९५-७), ननु भिन्नवचनत्वादेकत्वाभावे कुटवृक्षवदितत्युदाहरणमसङ्गतं कुच वृक्षश्च कुटवृक्षौ ताविव कुटवृक्षवदितति, न ह्यत्र क्वचिद्वचनभेदोऽस्ति सत्यं स्यादेतद्यद्येकवचनान्तपदद्वयस्यात्र समासोऽभिप्रेतः स्यात् किन्तु कुटश्च वृक्षौ चेति समस्य वतिः क्रियत इत्यस्ति वचनभेदः, ननु भवत्वेवं तथाप्ययुक्तमिदमुदाहरणं, नह्यत्र वचनाभेदेऽपि कुटवृक्षशब्दयोः पर्यायता युज्यते भिन्नजातीयवस्तुवाचकत्वात्, तथाहि - कुटशब्देन घट उच्यते वृक्षशब्देन तु 10 शाखादिमान्पदार्थः तत्कुतो वचनाभेदेऽप्यनयोः पर्यायशब्दता, नैवं भिन्नजातीयवस्तुवाचित्वादित्यस्यासिद्धत्वाद्, यतः कौ - पृथव्यामटतीति व्युत्पत्तैः कुटशब्देन वृक्ष एवात्र इत्यनयोः पर्यायशब्दता, क्वचितु कूटवृक्षवदिति पाठस्तत्र निव्विवादं कूटशब्देन वृक्ष एवाभिधीयत इति, अस्माकं तावदयं सम्प्रदायः, सुधिया त्वन्यथापि भाव्यमिति । 'न स्थानभरणक्रिया 'मिति (९७-७), स्थानस्थस्यैव भरणक्रिया स्थानभरणक्रिया तां न विशेषयतीत्यर्थः यदा स्थानस्थित एव 15 जलादिना भ्रियते तदा घटो न भवति किन्तु योषिन्मस्तकारूढो जलाहरणचेष्टां कुर्व्वन्नेवेति भावार्थः । समाप्ता नया: । 'तद्वयतिरेकेणेत्यादि (९९ - ९), सूत्रार्थोपनिबद्धवस्तुव्यतिरेकेणाप्यर्थसम्भवादित्यर्थः, न ह्यभिलाप्यवस्तूनि सर्वाण्यपि सूत्रे निबद्धानि, तदुक्तं - " पण्णवणिज्जा भावा अनंतभागो उ अणभिलप्पाणं । पन्नवणिज्जाणं पुण अनंतभागो सुअनिबद्धो ||१||" अतः सूत्रानिषद्धवस्त्वपेक्षया युक्तोऽध्याहार इति 'विस्तरेणे 'ति विशेषयति, 'विरोधाविरोधे 'त्यादि (१०१-४), नैगमस्य 20 विशेषानभ्युपगच्छतः सङ्ग्रहेण सह विरोधः, सामान्याभ्युपगमेन त्वविरोधः, व्यवहारस्यापि ऋजुसूत्रेण सार्द्धं विशेषाभ्युपगमेऽविरोधोऽक्षणिकवस्त्वभ्युपगमेन तु विरोध इत्यादिको योऽसौ नयानां परस्परं विरोधाविरोधसम्भवविशेषः स आदिर्यस्य शेषनयवक्तव्यताविस्तरस्य तेन विरोधाविरोधसंभवविशेषादिना विस्तरेण नयानामपृथक्त्वे समवतार आसीदित्यर्थः । इतो वैरस्वामिवक्तव्यता । 'अन्ना 'महिलादी 'त्यादि (१११-३), निकटगृहादिवर्त्तिनीभिरन्यस्त्रीभिर्वैरस्वामिमाताऽभिहिता - एनं दारकं 25 एतस्मै स्वभर्त्रे साधुवेषधारिणे 'उव्विद्वेहि'त्ति समर्पय 'ततो कहिं नेहिइ'त्ति क्वैनं दारकं त्वया अप्पितमसौ नेष्यति ? ततो निर्गतिकत्वात्त्वामेव प्रतिपत्स्यत इति भावः । 'अहोधारं 'ति (११४१०), अहः सर्वमपि व्याप्य धारातोयबिन्दुपरम्परालक्षणा यत्र तत्तथाभूतं । 'एन्तगंपी' त्यादि एयंतगंपि वृ० (११६-४), आगच्छन्तमप्यालापकमुद्घोषयन्नास्ते । 'सहपडियं ति ( ११७- १ ),