Book Title: Avashyak Niryukti Part 03
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

View full book text
Previous | Next

Page 374
________________ પરિશિષ્ટ-૧ કે ૩૬૩ श्रमवदुच्यते यतोऽसावपि तस्यामवस्थायां यथा श्रमणस्तथा प्रभूतकर्मवेदको भवतीति । 'क्षेत्रनियम त्वि'त्यादि (२२७-३), एतदुक्तं भवति-'विरई मणुस्स लोए' इति ब्रुवता विरतिर्मनुष्यलोक एव भवतीति क्षेत्रनियमः कृतः, सर्ववाक्यानां सावधारणत्वाद्, अयं तु न युज्यते, यतो यदि देवापहारादितो मनुष्यलोकादर्द्धतृतीयद्वीपसमुद्रलक्षणाद् बहिर्निर्गतस्य नन्दीश्वरादिशाश्वतप्रतिमादिदर्शनाद्विरतिलाभ: स्यात् तदा किं झूयते येन मनुष्यलोकेन तल्लाभं नियमतीत्यभिप्रायवतोक्तं 5 'विशिष्टश्रुतविदो विदन्ती'ति । 'तत्रैकैकः प्रदेशो विदिक्ष्वि'त्यादि (२२८-४), नन्वत्र यतो द्रव्याद् दशानां दिशां प्रभव उन्मीलितो भवति तद्रव्यं दिक्त्वेन विवक्षितं, तच्च त्रयोदशभिरेव प्रदेशैर्भवति न हीनाधिकैरित्यत्र का युक्तिरिति, उच्यते, इह मध्ये तावदेक: परमाणुरवस्थाप्यते, तं च यदा अपरे चत्वारः परमाणवो वेष्टयन्ति तदा षण्णां दिशामेवोन्मीलना भवति न विदिशां, एकस्मात्परमाणोर्विदिगुत्थानाभावात् षड्दिक्सम्बन्धस्यैव परमाणोरभिधानाद् ‘एगपएसोगाढं सत्तपएसा य से 10 फुसणा' इति वचनाद्, यदि हि परमाणाविदिक्सम्बन्धः स्यात्तदा एकादशप्रदेशव स्पर्शना स्यात् न सप्तप्रदेशेति भावः, तस्मान्न पञ्चभिः प्रदेशैदिग्दशकस्योन्मीलना भवति, नवभिरपि न भवति, ये ह्यपरे दिक्षु चत्वारः परमाणवो व्यवस्थाप्यन्ते तैः पुनरपि दिश एवोत्तिष्ठन्ति न विदिशः कोणानामन्तर्निविष्टत्वाद् अतो विदिगुन्मीलनार्थमपरेऽपि चत्त्वारः कोणेषु व्यवस्थाप्यन्ते इति दशदिकप्रभवं क्षेत्रं त्रयोदशभिः खाणुभिर्भवतीति न हीनाधिकैरिति स्थापना (२२८) परमार्थ- 15 तश्चेतस्येवावधारणीया, वृत्तिकृता तु तदुपदर्शनबद्धाग्रहशिष्यावबोधार्थमेवासौ दर्शिता यथावदस्या दर्शयितुमशक्यत्वाद् अभ्युह्या वा प्राज्ञैरिति । 'दो चेव य होति रुअगनिभ'त्ति (२२९-१०), रुचको नाम गोस्तनाकारो अष्टाकाशप्रदेशनिष्पन्नो यतो दिशः प्रभवन्ति तत्सदृशमूर्ध्वाधोदिग्द्वयं भवतीतिभावः । 'देशविरतिसर्वविरतिसामायिकयोस्त्वि'त्यादि (२३२-३) ननु चाधस्तनभूमिकायां प्रज्ञापके धर्मं कथयति उपरितनभूमिकायामधस्ताद्वा व्यवस्थितः सम्भवति सर्वदेशविरत्योः 20 कश्चित्प्रतिपत्ता, तथा तापदिगप्यादित्यापेक्षैव ततः सवितुरप्यूर्वाधस्तत्सम्भवो घटत एवेति किमित्येवं नियमो, नैतदेवं, यतो देशसर्वविरती विशिष्टगुणरूपे न विशिष्टविनयमन्तरेण प्राप्येते यस्तु प्रज्ञापकशिरस्यधोभागे वाऽत्यन्तसमश्रेणितया वर्तते स प्रज्ञापकावज्ञाकारित्वात्कथं तदवाप्तिभाग भवेत् ?, सम्यक्त्वश्रुतसामायिकयोस्तु देवनारकाः प्रतिपत्तारः संभवन्ति अत्यन्तव्यवहितत्वेनाशातनाभावाद्, आदित्यस्याप्यूर्वाधोलिण्डयेऽत्यन्तसमश्रेणिव्यवस्थितसर्वदेशविरतिप्रतिपत्रोर्मनुष्यतिरथो: 25 सूक्ष्मेक्षितया विचार्यमाणयोरसम्भव एव लक्ष्यतेऽत एव प्रतिषेधादिति तावदस्माकं सम्प्रदायः, सूक्ष्मधिया त्वन्यथाऽपि भाव्यमिति। 'चाहत' इति (२३३-६), सामान्यतो न विशेषतः प्रतिक्षणं सर्वभावानामपचीयमानत्वादिति । 'षड्विध इत्यादि (२३४-४), न चात्र दुष्षमदुष्षमायामत्यन्तक्लिष्टत्वाद्विलवासिषु सामायिकाभाव आशंकनीयो, यतः प्रज्ञप्त्यामप्युक्तं-'उस्सन्न धम्मसन्नपरिवज्जिय'त्ति

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410