________________
પરિશિષ્ટ-૧ કે ૩૬૩ श्रमवदुच्यते यतोऽसावपि तस्यामवस्थायां यथा श्रमणस्तथा प्रभूतकर्मवेदको भवतीति । 'क्षेत्रनियम त्वि'त्यादि (२२७-३), एतदुक्तं भवति-'विरई मणुस्स लोए' इति ब्रुवता विरतिर्मनुष्यलोक एव भवतीति क्षेत्रनियमः कृतः, सर्ववाक्यानां सावधारणत्वाद्, अयं तु न युज्यते, यतो यदि देवापहारादितो मनुष्यलोकादर्द्धतृतीयद्वीपसमुद्रलक्षणाद् बहिर्निर्गतस्य नन्दीश्वरादिशाश्वतप्रतिमादिदर्शनाद्विरतिलाभ: स्यात् तदा किं झूयते येन मनुष्यलोकेन तल्लाभं नियमतीत्यभिप्रायवतोक्तं 5 'विशिष्टश्रुतविदो विदन्ती'ति । 'तत्रैकैकः प्रदेशो विदिक्ष्वि'त्यादि (२२८-४), नन्वत्र यतो द्रव्याद् दशानां दिशां प्रभव उन्मीलितो भवति तद्रव्यं दिक्त्वेन विवक्षितं, तच्च त्रयोदशभिरेव प्रदेशैर्भवति न हीनाधिकैरित्यत्र का युक्तिरिति, उच्यते, इह मध्ये तावदेक: परमाणुरवस्थाप्यते, तं च यदा अपरे चत्वारः परमाणवो वेष्टयन्ति तदा षण्णां दिशामेवोन्मीलना भवति न विदिशां, एकस्मात्परमाणोर्विदिगुत्थानाभावात् षड्दिक्सम्बन्धस्यैव परमाणोरभिधानाद् ‘एगपएसोगाढं सत्तपएसा य से 10 फुसणा' इति वचनाद्, यदि हि परमाणाविदिक्सम्बन्धः स्यात्तदा एकादशप्रदेशव स्पर्शना स्यात् न सप्तप्रदेशेति भावः, तस्मान्न पञ्चभिः प्रदेशैदिग्दशकस्योन्मीलना भवति, नवभिरपि न भवति, ये ह्यपरे दिक्षु चत्वारः परमाणवो व्यवस्थाप्यन्ते तैः पुनरपि दिश एवोत्तिष्ठन्ति न विदिशः कोणानामन्तर्निविष्टत्वाद् अतो विदिगुन्मीलनार्थमपरेऽपि चत्त्वारः कोणेषु व्यवस्थाप्यन्ते इति दशदिकप्रभवं क्षेत्रं त्रयोदशभिः खाणुभिर्भवतीति न हीनाधिकैरिति स्थापना (२२८) परमार्थ- 15 तश्चेतस्येवावधारणीया, वृत्तिकृता तु तदुपदर्शनबद्धाग्रहशिष्यावबोधार्थमेवासौ दर्शिता यथावदस्या दर्शयितुमशक्यत्वाद् अभ्युह्या वा प्राज्ञैरिति । 'दो चेव य होति रुअगनिभ'त्ति (२२९-१०), रुचको नाम गोस्तनाकारो अष्टाकाशप्रदेशनिष्पन्नो यतो दिशः प्रभवन्ति तत्सदृशमूर्ध्वाधोदिग्द्वयं भवतीतिभावः । 'देशविरतिसर्वविरतिसामायिकयोस्त्वि'त्यादि (२३२-३) ननु चाधस्तनभूमिकायां प्रज्ञापके धर्मं कथयति उपरितनभूमिकायामधस्ताद्वा व्यवस्थितः सम्भवति सर्वदेशविरत्योः 20 कश्चित्प्रतिपत्ता, तथा तापदिगप्यादित्यापेक्षैव ततः सवितुरप्यूर्वाधस्तत्सम्भवो घटत एवेति किमित्येवं नियमो, नैतदेवं, यतो देशसर्वविरती विशिष्टगुणरूपे न विशिष्टविनयमन्तरेण प्राप्येते यस्तु प्रज्ञापकशिरस्यधोभागे वाऽत्यन्तसमश्रेणितया वर्तते स प्रज्ञापकावज्ञाकारित्वात्कथं तदवाप्तिभाग भवेत् ?, सम्यक्त्वश्रुतसामायिकयोस्तु देवनारकाः प्रतिपत्तारः संभवन्ति अत्यन्तव्यवहितत्वेनाशातनाभावाद्, आदित्यस्याप्यूर्वाधोलिण्डयेऽत्यन्तसमश्रेणिव्यवस्थितसर्वदेशविरतिप्रतिपत्रोर्मनुष्यतिरथो: 25 सूक्ष्मेक्षितया विचार्यमाणयोरसम्भव एव लक्ष्यतेऽत एव प्रतिषेधादिति तावदस्माकं सम्प्रदायः, सूक्ष्मधिया त्वन्यथाऽपि भाव्यमिति। 'चाहत' इति (२३३-६), सामान्यतो न विशेषतः प्रतिक्षणं सर्वभावानामपचीयमानत्वादिति । 'षड्विध इत्यादि (२३४-४), न चात्र दुष्षमदुष्षमायामत्यन्तक्लिष्टत्वाद्विलवासिषु सामायिकाभाव आशंकनीयो, यतः प्रज्ञप्त्यामप्युक्तं-'उस्सन्न धम्मसन्नपरिवज्जिय'त्ति