________________
૩૬૨ & મલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૩) पश्चाद्विवृतः ॥ समाप्ता निह्नवाः ॥ 'चतुर्थस्य चे'त्यादि (२१४-२), रूपाणि-पुत्तलिकादीन्यजीवानि रूपसहगतानि तु-सचेतनस्त्र्यादीनि अथवा निभूषणानि-रूपाणि भूषणावृतानि तु - रूपसहगतान्यभिधीयन्ते । ‘स एव सामायिकादिर्गुण'इत्यादि (२१५-४), पर्यायास्तिकमतेन हि द्रव्यस्यावास्तवत्वात्सर्वेऽपि पदार्था गुणरूपा एवेति प्रसङ्गतः शेषपदार्था अपि सामायिकवद् गुणरूपाः सेत्स्यन्तीति सर्वार्थसङ्ग्राहकमादिशब्दं निर्दिशति, य एव द्रव्यास्तिकेन द्रव्यतयाऽभ्युपगतः स एव सामायिकादिरर्थः पर्यायास्तिकमतेन गुणः, अयञ्च गुणशब्दो गाथापर्यन्तादानीयात्र योज्यते आवृत्त्या स्वस्थानेऽपि योक्ष्यते, युक्तिमाह-यस्मात् 'जीवस्स एस गुणो'त्ति व्यस्तेनाप्यनेनावयवेन जीवस्य गुणो जीवगुण इति षष्ठीतत्पुरुषसमासः सूचितो द्रष्टव्यः, ततश्चेत्थं प्रयोगद्वारेण तात्पर्यमवसेयं
इह यदेवोत्तरपदेन तत्पुरुषसमासे प्रतिपाद्यते तदेव परमार्थः, तद्यथा-तैलधारा, प्रतिपाद्यते च जीवगुण 10 इति षष्ठीतत्पुरुषोत्तरपदेन सामायिकादिर्गुणः तस्मात्स एव गुणः परमार्थसन्, न पुनस्तदतिरिक्तो
जीवः, तस्य धारातिरिक्ततैलवत् तत्पुरुषपूर्वपदप्रतिपादितत्वेनौपचारिकत्वादितिभावः । 'अपर्याय'इत्यादि (२१७-९), यद्यपर्याये परिज्ञा नास्ति तर्हि त एव पर्याया वस्तुसन्त एवेति पर्यायास्तिकेनोक्ते सत्याह-'न च ते पर्याया'इत्यादि (२१७-१०) । 'एकैकस्ये'त्यादि (२१९-८),
तत्र क्षपकश्रेणिप्रपन्नस्य चतुर्खनन्तानुबन्धिषु मिथ्यात्वमिश्रपुञ्जद्वये च क्षपिते सम्यक्त्वपुञ्जस्यापि 15 चरमपुद्गलग्रासक्षपणोद्यतस्य वेदकसम्यक्त्वं विज्ञेयं, सदनुष्ठानप्रवृत्तिं कारयतीति व्युत्पत्तेः कारकसम्यक्त्वं
सदनुष्ठानवतां चारित्रिणां वेदितव्यं, रोचयत्येव सदनुष्ठानं न तु कारयतीति रोचकं तत्त्वविरतसम्यग्दृष्टीनां, व्यञ्जकं दीपकमित्यनर्थान्तरं, एतत्तु यः स्वयं मिथ्यादृष्टिरपि परेभ्यो जीवादीन् यथावस्थितान् व्यनक्ति तस्याङ्गारमईकादेर्द्रष्टव्यं । ननु 'अज्झयणंपि य तिविहं' मित्यादिगाथायामध्ययनमेव व्याख्यास्यते
तत्कथमुच्यते श्रुतसामायिकं व्याचिख्यासुरित्याशङ्ख्याह-'तस्याध्ययनरूपत्वा'दिति (२२०-१०), 20 अध्ययनं श्रुतमित्येकार्थमित्यर्थः । 'साम्प्रतं फलदर्शनद्वारेणे'त्यादि (२२२-९), परो-मोक्षस्तदर्थमिति
वक्ष्यमाणफलप्रदर्शनद्वारेण 'अस्येति सामायिकस्य करणं-निवर्त्तनं तस्य विधानं कर्त्तव्यमेवेदमिति प्रतिपादयिष्यतीत्यर्थः । 'स्थुलसावधे'त्यादि (२२३-११), त्रिविधं त्रिविधेनेति यद्भगवत्यां श्रावकस्य प्रत्याख्यनमवाचि तद्राजान्तःपुरिकाद्यासेवनकाकमांसभक्षणादिस्थूलसावद्ययोगविषयं न
पुनरेकेन्द्रियसङ्घट्टनादिसूक्ष्मसावद्ययोगविषयमिति । 'जइ किंचि' गाहा (२२४-१), न विद्यते 25 प्रयोजनं येन तदप्रयोजनं-बलिभुक्पिशितादि अप्राप्यं-मेरुशिरःसमुद्भूतचन्दनवृक्षादि यद्येवम्भूतं
किञ्चिद्वस्तु विशेष्य-तदाश्रित्येत्यर्थः त्रिविधं त्रिविधेन प्रत्याचक्षीत श्रावको न कश्चिद्दोषः, किंवत् ?-स्वयम्भूरमणाश्रयमत्स्यवद्, यथा स्वयम्भूरमणमत्स्यानां त्रिविधं त्रिविधेन प्रत्याख्याति तथा यदि मध्यमखण्डवर्त्तिनामप्यत्यन्ताप्रयोजनाप्राप्यवस्तूनां त्रिविधं त्रिविधेन प्रत्याचक्षीत तदा न कश्चिद्विरोध इति गाथार्थः । 'कर्मवेदक'इति (२२४-१२), एतावता ह्यंशेन कृतसामायिकः श्रावकोऽपि