SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ પરિશિષ્ટ-૧ ૩૬૧ व्याख्या-इह शिष्यास्त्रिविधा:- केचित्तुच्छमतयोऽपरिणतजिनवचनरहस्या अपरिणामाः, परे त्वेकान्तक्रियाप्रतिपादकाद्येकनयमतवासितान्त:करणा उत्सर्गमोहितचेतसोऽतिपरिणामाः, अन्ये तु मध्यस्थवृत्तयः परिणतजिनवचसः परिणामा इत्यभिधीयन्ते, तत्र ये अपरिणामास्ते नयानां यः स्वः स्व आत्मीयो विषयो ज्ञानमेव श्रेय इत्यादिस्तमश्रद्दधानाः, ये त्वतिपरिणामास्तेऽपि यदेवैकेन नयेन ज्ञानं प्रधानं मुक्त्यङ्गं क्रिया वेत्यादि किञ्चिदुक्तं तदेव तन्मात्रं प्रमाणतया गृह्णन्त एकान्तनित्या- 5 नित्यवस्तुप्रतिपादकनयानां परस्परं विरोधं मन्वाना मिथ्यात्वं मा गमन्, येऽपि परिणामा उक्तस्वरूपास्ते यद्यपि मिथ्यात्वं न गच्छन्ति तथापि विस्तरेण नयैर्व्याख्यायमानैर्ये सूक्ष्मविचारादयो बहवो भेदा भवन्ति तान् ग्रहीतुमशक्ता भवेयुरिति मत्वा आर्यरक्षितसूरिभिः ततः कालिके इत्युपलक्षणत्वात् सर्व्वस्मिन्नपि श्रुते . नयविभागो-विस्तरव्याख्यारूपो न कृतः, ततः प्रभृति निरुद्ध इत्यर्थः, इति गाथाद्वयार्थः ॥ 'न स्कन्धवद् बद्ध'मिति (१६७-१), यथाऽणुस्कन्धो निबिड- 10 परिणतिरूपतयाऽन्योऽन्याविभागेन बद्धो नैवं कर्मेत्यर्थः । ननु बोटिका अपि निह्नवा एव तत्किमिति 'बहुरयपएसे'त्यादिगाथायां बहुरतजमालीत्यादि गाथाद्वये च तदुपन्यासो न कृतः?, विशेषणार्थखलुशब्दसूचितत्वेन प्राग्व्याख्याता एवेति चेत्, नैवं, बहुरतादिवत् साक्षात्कस्मान्नोपात्ताः ?. सत्यं, किन्तु ये द्रव्यलिङ्गादिना किञ्चित्सादृश्यं बिभ्रति त एवैहोपादेयत्वेनाभिमताः, ये तु द्रव्यलिङ्गतोऽपि भिन्ना अतीव विसंवादिनो बोटिकास्ते भिन्नद्रव्यलिङ्गा मिथ्यादृष्टयो भेदेनैवाग्रे 15 वक्ष्यन्ते, यद्येवं निह्नवप्रभवनगरप्रतिपादकद्वारगाथायां किमिति तन्नगरोपन्यास इत्याशङ्कयाह'वक्ष्यमाणभिन्नद्रव्ये त्यादि (१६८-१०), यदि पुनरिह तन्नगराडुपन्यासो न स्यात् तदा तद्वक्तव्यतावसरे द्वारगाथान्तरं कर्त्तव्यं स्याद्, अथैवं ब्रूयात् कृतेऽप्यत्र तन्नगराडुपन्यासे 'रहवीरपुरं नगरं दीवगमुज्जाणं मित्यादिगाथास्तद्वक्तव्यतावसरे वक्ष्यन्त एव तत्किमत्र लाघवमिति ?, यद्येवं बहुरतादिनगराणामपीहोपन्यासोऽनर्थकस्तद्वक्तव्यतावसरेष्वपि सविस्तरं तन्नगरादेर्वक्ष्यमाणत्वाद्, विशेषविवरणं 20 वक्ष्यमाणमिति चेद् अत्रापि तत्समानमित्यलं प्रपञ्चेन । 'महातवोतीरप्पभ' इत्यादि (१८५-२), राजगृहाबहिर्वैभारगिरेनिकटवर्ती पञ्चधनुःशतायामविस्तरजलाशयाभिधानविशेषोऽयमिति भावः । 'दृष्टान्तोऽपि न साधनधर्मे 'त्यादि (१९५६)जीवात्कर्म न वियुज्यते इत्यादौ प्रयोगे जीवस्य स्वकीयदेशा दृष्टान्त्वेनोपन्यस्तास्तेषु च यत्त्वया साधनत्वेनोपन्यस्तमन्योऽन्याविभागेन युतत्वं-मीलनं परस्परं बन्ध इतियावत् तन्न सिद्धं, न हि ते जीवाद्भेदेन व्यवस्थिताः सन्तोऽन्यतः कुतश्चि- 25 दागत्यान्योऽन्याविभागेन सम्बध्यन्ते, कुत इत्याह-ताद्रूप्येण-एकत्र पिण्डीभूतत्वेन अनादिसिद्धत्त्वात्तेषां, स्वप्रदेशवत् जीवात्काप्यभिन्नं भविष्यतीत्याह–'भिन्नं चे'त्यादि (१९५-७) । यदशनादि निह्नवनिमित्तं कृतं तत्परित्यागे परिभोगे वा भाज्यमितिव्याख्याद्वयेनोक्तं, कथम्भतं पुनस्तदशनादीति दर्शयति-तत्र भाज्यं मूल'इत्यादि (२०८-४), अयं च गाथावयवः पक्षद्वयेऽपि समान इति व्याख्याद्वयं कृत्वा
SR No.005755
Book TitleAvashyak Niryukti Part 03
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages410
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy