Book Title: Avashyak Niryukti Part 03
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

View full book text
Previous | Next

Page 375
________________ उ६४ औ भरधारी भयन्द्रसूरिस्त 2015 (भाग-3) उसन्नमिति प्रायोग्रहणेन ज्ञायते सम्यक्त्वमात्रप्रतिपत्ता कश्चिद्भवत्यपि । दर्शनचारित्रसामायिकस्य शैलेषी' इत्यादि (२३७-५), ननु यथाऽस्य तथा सिद्धस्यापि पूर्वप्रतिपत्तिमङ्गीकृत्य सम्यक्त्वसामायिकं विद्यते तत् किमिति सिद्धस्य चतुर्णामपि निषेधः ?, सत्यं, किन्तु सम्यक्त्ववर्जसामायिकत्रयं संसारस्थानामेव सम्भवति तत्साहचर्यात्सम्यक्त्वसामायिकमपि संसारिणां सम्बन्धि विचार्यते, तथाभूतं तु सिद्धे नास्तीति निषिध्यतं इति न दोषः । 'जघन्यस्थितिकर्मबन्धकत्वादिति (२४०-६, एतदुक्तं भवति-येन केनचिन्न्यायेनेह लघ्वी स्थितिर्लभ्यते तथा गृह्यते, ततश्च यद्यपि कश्चित्क्षपकादिः शुभाध्यवसायतः सत्कर्मस्थितिं लघु करोति तथापि तत्कालबन्धस्थित्यपेक्षया सत्कर्मस्थितिवृहत्तरैव भवति, अतो जघन्यपदे विचार्ये बन्धस्थितिर्गृह्यते न तूपात्तसत्कर्मस्थितिरिति भावः, ननु तथाप्यन्तकृत्केवली यो भविष्यतीति किमिति स एवेह गृहीत इति चेद्, उच्यते, अयं ह्येकहेलयैव 10 समस्तकर्मक्षयं कृत्वा झगित्येव मोक्षलक्ष्मी प्राप्स्यतीति शेषक्षपकेभ्यो विशुद्धाध्यब सायत्वादतिलघुतरस्थितिबन्धक इति विशेषतो गृह्यते, नन्वनिवृत्तिबादरादारभ्य सर्वेऽपि क्षपकास्तुल्यपरिणामा इत्यागमः ततो व्यर्थं विशेषग्रहणमिति चेत्, सत्यं, किन्त्वस्त्यपूर्वकरणे क्षपकाणामपि परस्परं विशेषोऽसङ्ख्येलोकाकाशप्रमाणाध्यवसायस्थाननिष्पन्नत्वात्तस्य, अत एवोक्तं 'दर्शनसप्तकातिक्रान्त' इति दर्शनसप्तकातिक्रान्तो ह्यपूर्वकरणादारभ्य प्राप्यते, अपूर्वकरणे च याः 15 काश्चित्कर्मप्रकृतयो बन्धे व्यवच्छिद्यन्ते तासामसौ शेषक्षपकेभ्यो जघन्यस्थितिबन्धको भवतीति युज्यत एव विशेषग्रहणं, भवत्वेवं तथापि समुत्पन्नकेवलज्ञानाद्यवस्थोऽन्तकृत्केवली सामान्यतः किन्न गृह्यते येन विशेषणद्वयपादीयते दर्शनसप्तकातिक्रान्तः क्षपक इति चेत्, सत्यं, किन्त्वतिक्रान्तदर्शनसप्तकक्षपकावस्थयोरेव कर्मसप्तकस्य जघन्यो बन्धः प्राप्यते नान्यत्र, तथाहि अक्षीणदर्शनसप्तकस्य तावन्मन्दाध्यवसायत्वादेव न जघन्यबन्धसम्भवः, क्षपकावस्थोत्तीर्णस्यापि 20 क्षीणमोहस्योत्पन्नके वलस्य वा कर्मसप्तकबन्धस्यैवाभावान्न तज्जघन्यबन्धसम्भव इति विशेषणद्वयाददोषः । 'देशविरतिसामायिकं त्वि'त्यादि (२४२-१०), एतदुक्तं भवति देवनारकयतिश्रावकाश्चत्वारोऽवधिस्वामिनः, तत्राद्यत्रयस्य देशविरतिप्रतिपत्त्यसम्भव एव, श्रावकोऽप्यवधिज्ञानं प्राप्य देशविरति प्रतिपद्यते इत्येवं न, किन्तु पूर्वमभ्यस्तदेशविरतिगुणः पश्चादवधि प्रतिपद्यते, कुत इत्याह-देशविरतिलक्षणगुणपूर्वकत्वात्तदवाप्तेः-अवध्याप्तेरित्यर्थः, अन्ये 25 त्वन्यथाऽप्यत्र व्याचक्षते, तत्त्वं तु केवलिनो विदन्तीति । 'प्रवर्द्धमानपरिणामे'त्यादि (२४४-६), अयमत्र भावार्थ:-यथा 'सव्वाओ लद्धीओ सागारोवओगे'त्यादिक आगमः तथा 'उवओगद्गम्मि चउरो पडिवज्जे'इत्ययमप्यागम एव अतः परस्परप्रतिस्पद्धिसैद्धान्तिकवचसां विषयव्यवस्था न्याय्या, सा चेयं-याः सम्यक्त्वं लब्ध्वा मिथ्यात्वं गतानां पुनरपि कुतश्चिच्छुभोदयात्प्रतिक्षणं वर्द्धमानाध्यवसायवतां सम्यक्त्वचारित्रादिलब्धयो भवन्ति ताः साकारोपयोगोपयुक्तस्य द्रष्टव्याः,

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410