Book Title: Avashyak Niryukti Part 03
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

View full book text
Previous | Next

Page 370
________________ પરિશિષ્ટ-૧ ૩૫૯ समानलिङ्गवचनपर्यायध्वनिवाच्यमेव च तदिच्छतीत्यनयोर्भेदः, वक्ष्यमाणस्त्वेकस्मिन्वस्तुन्येक व ध्वनिः प्रवर्त्तते न समानलिङ्गवचना अपि बहव इत्यभिमंस्यते, अतो नयद्वयादप्यस्य भिन्नता, एवमन्येष्वपि नयेषु विशेषणानि यथासम्भवं पूर्वोत्तरनयभिन्नतासूचकत्वेन द्रष्टव्या । 'तस्यार्थपरिग्रहादि'त्यादि (९५-६), तस्य - प्राधान्येनाङ्गीकृतशब्दस्य वाच्यत्वेन सम्बन्धी योऽर्थो घटादिलक्षणस्तं परिगृह्णाति, नयो- ज्ञानविशेष इत्युपचारात्सोऽपि ज्ञानस्वरूपो नयः शब्द इत्युच्यते । 5 'न च भिन्ने-त्यादि (९५-७), ननु भिन्नवचनत्वादेकत्वाभावे कुटवृक्षवदितत्युदाहरणमसङ्गतं कुच वृक्षश्च कुटवृक्षौ ताविव कुटवृक्षवदितति, न ह्यत्र क्वचिद्वचनभेदोऽस्ति सत्यं स्यादेतद्यद्येकवचनान्तपदद्वयस्यात्र समासोऽभिप्रेतः स्यात् किन्तु कुटश्च वृक्षौ चेति समस्य वतिः क्रियत इत्यस्ति वचनभेदः, ननु भवत्वेवं तथाप्ययुक्तमिदमुदाहरणं, नह्यत्र वचनाभेदेऽपि कुटवृक्षशब्दयोः पर्यायता युज्यते भिन्नजातीयवस्तुवाचकत्वात्, तथाहि - कुटशब्देन घट उच्यते वृक्षशब्देन तु 10 शाखादिमान्पदार्थः तत्कुतो वचनाभेदेऽप्यनयोः पर्यायशब्दता, नैवं भिन्नजातीयवस्तुवाचित्वादित्यस्यासिद्धत्वाद्, यतः कौ - पृथव्यामटतीति व्युत्पत्तैः कुटशब्देन वृक्ष एवात्र इत्यनयोः पर्यायशब्दता, क्वचितु कूटवृक्षवदिति पाठस्तत्र निव्विवादं कूटशब्देन वृक्ष एवाभिधीयत इति, अस्माकं तावदयं सम्प्रदायः, सुधिया त्वन्यथापि भाव्यमिति । 'न स्थानभरणक्रिया 'मिति (९७-७), स्थानस्थस्यैव भरणक्रिया स्थानभरणक्रिया तां न विशेषयतीत्यर्थः यदा स्थानस्थित एव 15 जलादिना भ्रियते तदा घटो न भवति किन्तु योषिन्मस्तकारूढो जलाहरणचेष्टां कुर्व्वन्नेवेति भावार्थः । समाप्ता नया: । 'तद्वयतिरेकेणेत्यादि (९९ - ९), सूत्रार्थोपनिबद्धवस्तुव्यतिरेकेणाप्यर्थसम्भवादित्यर्थः, न ह्यभिलाप्यवस्तूनि सर्वाण्यपि सूत्रे निबद्धानि, तदुक्तं - " पण्णवणिज्जा भावा अनंतभागो उ अणभिलप्पाणं । पन्नवणिज्जाणं पुण अनंतभागो सुअनिबद्धो ||१||" अतः सूत्रानिषद्धवस्त्वपेक्षया युक्तोऽध्याहार इति 'विस्तरेणे 'ति विशेषयति, 'विरोधाविरोधे 'त्यादि (१०१-४), नैगमस्य 20 विशेषानभ्युपगच्छतः सङ्ग्रहेण सह विरोधः, सामान्याभ्युपगमेन त्वविरोधः, व्यवहारस्यापि ऋजुसूत्रेण सार्द्धं विशेषाभ्युपगमेऽविरोधोऽक्षणिकवस्त्वभ्युपगमेन तु विरोध इत्यादिको योऽसौ नयानां परस्परं विरोधाविरोधसम्भवविशेषः स आदिर्यस्य शेषनयवक्तव्यताविस्तरस्य तेन विरोधाविरोधसंभवविशेषादिना विस्तरेण नयानामपृथक्त्वे समवतार आसीदित्यर्थः । इतो वैरस्वामिवक्तव्यता । 'अन्ना 'महिलादी 'त्यादि (१११-३), निकटगृहादिवर्त्तिनीभिरन्यस्त्रीभिर्वैरस्वामिमाताऽभिहिता - एनं दारकं 25 एतस्मै स्वभर्त्रे साधुवेषधारिणे 'उव्विद्वेहि'त्ति समर्पय 'ततो कहिं नेहिइ'त्ति क्वैनं दारकं त्वया अप्पितमसौ नेष्यति ? ततो निर्गतिकत्वात्त्वामेव प्रतिपत्स्यत इति भावः । 'अहोधारं 'ति (११४१०), अहः सर्वमपि व्याप्य धारातोयबिन्दुपरम्परालक्षणा यत्र तत्तथाभूतं । 'एन्तगंपी' त्यादि एयंतगंपि वृ० (११६-४), आगच्छन्तमप्यालापकमुद्घोषयन्नास्ते । 'सहपडियं ति ( ११७- १ ),

Loading...

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410