Book Title: Avashyak Niryukti Part 03
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala
View full book text
________________
૩૬૦ છે મલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૩) शब्द: पतितो-बृहत्त्वाद्वयापितया सर्वदिक्षु यस्यां सा तथा, बृहच्छब्देन नैषेधिकी चक्रुरित्यर्थः। 'उस्सारकप्पो'त्ति (११८-७), यत्रैकस्मिन्नेव दिने बहुदिवसयोग्यसूत्रस्य वाचना दीयते स उत्सारकल्पः'अम्मोगइयाए'त्ति (१२१-२), अभिमुखो निर्गत इत्यर्थः । 'तडिउत्ति (१२६-३), अभिधानमेतत्तस्य। 'तुब्भे गहेह'त्ति (१२६-४), ग्रथयत तावत्पुष्पाणि यूयमित्यर्थः ॥ इत. आर्यरक्षितचरितं-'तेहिं पारद्धोत्ति (१३४-६), राजा स्वल्पपरिवार आसीद्देवेन च पूर्वमेव. बहवस्तापसा विकुर्विता आसन्नितिभावः । 'तंपी'ति (१३९-७), तस्य गृहं वदनं-तोरणमाला 'अग्घेण'त्ति (१३९-८), अक्षतपात्रवस्त्रादिना ‘पज्जेणं'ति प्रशस्तकुसुममिश्रजलादिना 'तेवि सुविणय'मित्यादि, (१४४-१) यथा-वैरस्वामिन्यध्ययनार्थमागते भद्रगुप्ताचार्याः क्षीरभृतनिज
पतद्ग्रहकमागन्तुकेन पीतं ददृशुस्तथा वैरस्वाम्यपि स्वप्नमद्राक्षीत्, केवलं तेन किञ्चिदुद्धरितं क्षीरं 10 दृष्टं यथा च भद्रगुप्ताचार्यैः स्वप्नार्थः परिणमितस्तथा एभिरपीत्यर्थः । 'अज्जवइरा भणंती'त्यादि
(१४४-६) वैरस्वामिना आर्यरक्षित उक्तः-कुरु त्वं, किमित्याह—'जइतं'ति, ननु जविकं किमुच्यत इत्याह-'एअं परिकम्मं एयस्स'ति यथा श्रीधरादि पाठ्याः सङ्कलनादीनि परिकर्माणि तथा जविकान्यप्येतस्य दशमपूर्वस्य परिकर्मभूतानि, ततश्च जविकलक्षणपरिकर्मश्रुताध्ययनं कुरु येन
दशमपूर्वाध्ययनयोग्यो भवसीत्यर्थः । 'अहिगते'ति (१४८-६), अधिगतजीवादितत्त्वा चिन्तेई'15 त्यादि सा श्राविका चिन्तयामास-मैवं भवतु यदुत वयमत्र नगरे ऊर्जितं-समाहात्म्यं जीवित्वा ततो
'देहबलियाए'त्ति (१४८-७), भिक्षया वृत्तिं करिष्याम इति । 'जुयलएणं कुंडियाइ'त्ति (१५०१), कुण्डिया नाम शौचा) करपत्रिका तया युगलकेन च-अड्डकच्छाबन्धयोग्येनेकैनाध:परिधानेन द्वितीयेन तु प्रावरणेन सार्द्ध प्रव्रज्यामङ्गीकरोमीत्यर्थः । 'बत्तीसं सीसे'त्यादि (१५५-१),
द्वात्रिंशन्मोदकलाभनिमित्तसूचिताः परम्परया युष्मत्सन्तानव्यवस्थापका द्वात्रिंशच्छिष्या भविष्यन्तीति 20 भावः। 'वइदिस'त्ति (१५६-४), उज्जयिन्यां, 'सुत्तमंडलीए'त्ति (१५८-६) सूत्रपाठकयतिमण्डल्यां।
'अइसय' गाहा 'साणुग्गहो'गाहा (१५९-२), अत्र च द्वितीयगाथायां क्रिया, विष्वक्-पृथग् अकाषीदार्यरक्षित इति प्रक्रमाद्गम्यते, कान्?-अनुयोगान्-चरणकरणानुयोगादीन् केन?-'कालियसुअं च इसिभासियाई' इत्यादिगाथावक्ष्यमाणश्रुतविभागेन नयाँश्च-नैगमादीन् अकार्षीदिति वर्तते, कथम्भूतान्?
- सुष्ठ निगूहितो-व्याख्यानिरोधेन छन्नीकृतो विभागो येषां ताँस्तथाभूतान्, किमर्थं ?-सुखग्रहणादिनिमित्तं, 25 आदिशब्दाद् धारणादिपरिग्रहः, एतच्च कृतवान् कथम्भूतः?-शिष्यान् प्रति सानुग्रहः, किं कृत्वा ?
ज्ञात्वा क्षेत्रमित्यनुस्वारोऽलाक्षणिकः क्षेत्रकालानुभावं आत्मव्यतिरिक्तशेषपुरुषाँश्च मतिः-अर्थग्रहणविषया मेधा-सूत्राध्ययनविषया ताभ्यां परिहीणान्, कथम्भूतः सन्नेतज्जानातीत्याह-श्रुतातिशये कृतोपयोग इति गाथाद्वयार्थः ॥ एवमनुयोगपृथक्करणे नयाविभागकरणे च सामान्येनोक्तेऽपि कारणे पुनरपि नयाविभागकरणे विशेषतः सविस्तरं कारणमाह-'सविसये'त्यादि गाथाद्वयं (१५९-४), अस्य

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410