________________
आहितविशेषत्वं ३१ साकारत्वं ३२ सत्त्वपरिगृहीतत्वम् ३३ अपरिखेदित्वम् ३४ अव्युच्छेदित्वं ३५ चेति वचनातिशयाः। ४ तत्र 'संस्कारवत्त्वं' संस्कृतादिलक्षणयुक्तत्वं १ उदात्तत्वम्-उच्चैर्वृत्तित्वम् २ उपचारोपेतत्वम्-अग्राम्यता ३ गम्भीरश-18
ब्दत्वं-मेघस्येव ४ अनुनादित्वं-प्रतिरवोपेतत्वादि ५ दक्षिणत्वं-सरलत्वम् ६ उपनीतरागत्वं-मालवकेशिकादिग्रामरागयुक्तता ७ एते सप्त शब्दापेक्षा अतिशयाः, अन्ये त्वर्थाश्रयाः, तत्र महार्थत्वं-बृहदभिधेयता ८ अव्याहतपूर्वापरत्वं-पूर्वापरवाक्याविरोधः ९ शिष्टत्वम्-अभिमतसिद्धान्तोक्तार्थता वक्तुः शिष्टतासूचकत्वं वा १० असन्दिग्धत्वम्-असंशयकारिता ११ अपहतान्योत्तरत्वं-परदूषणाविषयता १२ हृदयग्राहित्वं-श्रोतृमनोहरता १३ देशकालाव्यतीतत्वं-प्रस्तावोचि
तता १४ तत्त्वानुरूपत्वं-विवक्षितवस्तुस्वरूपानुसारिता १५ अप्रकीर्णप्रसृतत्वं-सुसम्बद्धस्य सतः प्रसरणम् , अथवा अस-|| ||म्बद्धाधिकारत्वातिविस्तरयोरभावः १६ अन्योऽन्यप्रगृहीतत्व-परस्परेण पदानां वाक्यानां वा सापेक्षता १७ अभिजातत्वं ||3|| * वक्तुः प्रतिपाद्यस्य वा भूमिकानुसारिता १८ अतिस्निग्धमधुरत्वं-घृतगुडादिवत् सुखकारित्वं १९ अपरमर्मवेधित्वं-परम
मानुद्घाटनस्वरूपत्वम् २० अर्थधर्माभ्यासानपेतत्वं-अर्थधर्मप्रतिबद्धत्वं २१ उदारत्वम्-अभिधेयार्थस्यातुच्छत्वं गुम्फगुण-|| विशेषो वा २२ परनिन्दात्मोत्कर्षविप्रयुक्तत्वमिति प्रतीतमेव २३ उपगतश्लाघ्यत्वम्-उक्तगुणयोगात् प्राप्तश्लाध्यता २४| अनपनीतत्वम्-कारककालवचनलिङ्गादिव्यत्ययरूपवचनदोषापेतता २५ उत्पादिताच्छिन्नकौतूहलत्वं-स्वविषये श्रोतॄणांत जनितमविच्छिन्नं कौतुकं येन तत्तथा तद्भावस्तत्त्वम् २६ अद्भुतत्वम् अनतिविलम्बित्वं च प्रतीतं २७-२८ विभ्रम-1 | विक्षेपकिलिकिञ्चितादिवियुक्तत्व-विभ्रमो-वक्तमनसो भ्रान्तता विक्षेपः-तस्यैवाभिधेयार्थ प्रत्यनासक्तता किलिकिञ्चिसं
SHISHERECORNER
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org