Book Title: Auppatiksutram
Author(s): Abhaydevsuri, Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
अम्मडा.
औपपातिकम्
सू०४०
॥९९॥
पगइतणुकोहमाणमायालोहयाए मिउमद्दवसंपण्णयाए अल्लीणयाए भद्दयाएं त्ति व्याख्या प्राग्वत् , 'अनिक्खित्तेणं ति अविश्रान्तेन 'पगिंझियत्ति प्रगृह्य विधायेत्यर्थः, 'परिणामणं'ति जीवपरिणत्या 'अज्झवसाणेहिति मनोविशेषैः 'लेसाहिति तेजोलेश्यादिकाभिः 'तदावरणिजाणं'ति वीर्यान्तरवैक्रियलब्धिप्राप्तिनिमित्तावधिज्ञानावरणानामित्यर्थः. 'ईहावहमग्गण
गवेसणं'ति इह ईहा-किमिदमित्थमुतान्यथेत्येवं सदालोचनाभिमुखा मतिः चेष्टा, व्यूह-इदमित्थमेवरूपो निश्चयः, # मार्गणम्-अन्वयधर्मालोचनं यथा स्थाणौ निश्चेतव्ये इह वड्युत्सर्पणादयः प्रायः स्थाणुधर्मा घटन्त इति, गवेषणं-व्यतिरेकध
मालोचनं यथा स्थाणावेव निश्चेतव्ये इह शिरःकण्डूयनादयःप्रायः पुरुषधर्मा न घटन्त इति, तत एषां समाहारद्वन्द्वः, 'वीरियलद्धीए'त्ति वीर्यलब्ध्या सह 'वेउवियलद्धीए'त्ति वैक्रियलब्ध्या सह 'ओहिणाणलद्धि'त्ति अवधिज्ञानलब्धिः समुत्पन्ना, वीर्यलब्ध्यादित्रयमुत्पन्नमित्यर्थः, वाचनान्तरे 'वीरियलद्धी वेउबियलद्धी'त्ति पठ्यते, यक्वचित् 'अम्म(म्ब)डे परिवायगे'त्ति दृश्यते तदयुक्तं, अम्मडे इत्येतस्य स्थानाङ्गादिपुस्तकेषु दर्शनात् , 'अहिगयजीवाजीवे' इत्यत्र यावत्करणादिदं दृश्यम्'उवलद्धपुण्णपावे 'आसवसंवरनिज्जरकिरियाहिगरणबंधमोक्खकुसले' आश्रवाः-प्राणातिपातादयः संवराः-प्राणातिपातविरमणादयः निर्जरा-कर्मणो देशतः क्षपणं क्रिया:-कायिक्यादिकाः अधिकरणानि-खड्गादिनिर्वर्तनसंयोजनानि बन्धमोक्षौ-कर्मविषयौ, एतेन चास्य ज्ञानसम्पन्नतोक्ता, 'असहेजत्ति अविद्यमानसाहाय्यः कुतीर्थिकप्रेरितः सन् सम्यक्त्वाविचलनं प्रति न परसाहाय्यमपेक्षत इति भावः, अत एवाह-'देवासुरनागसुवण्णजक्खरक्खसकिण्णरकिंपुरिसगरुलगंधवमहोरगाइएहिं निग्गंथाओ पावयणाओ अणइक्कमणिजे'इति देवा-वैमानिकाः असुरनागत्ति-असुरकुमारा नागकुमारा
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244