Book Title: Auppatiksutram
Author(s): Abhaydevsuri, Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
औपपातिकम्
समुद्घा०
सू०४२
॥११०॥
नो मणजोगं नो वदत्त्या प्रतीयते, त्यत्वे भवति, इस कपाटाकारधारकया.//
लोकशब्देन उच्यन्ते, अतो मन्थान्तरालपूरकान् प्रदेशान् संहरति मथिस्थो भवतीतियावत्, 'मंथं पडिसाहरईत्ति मथ्या. कारव्यवस्थापितप्रदेशान् संहृत्य कपाटस्थो भवतीतियावत् , 'कवाडं पडिसाहरइ'त्ति सप्तमसमये कपाटाकारधारकप्रदेशसंहरणाद्दण्डस्थो भवतीत्यर्थः, 'अहमे समए दंडं पडिसाहरइ, साहरित्ता सरीरत्थे भवईत्ति, इह यद्यपि संहृत्ये त्यनेन संहरणस्य पूर्वकालता शरीरस्थभवनस्य च पश्चात्कालता शब्दवृत्त्या प्रतीयते, तथाऽप्यर्थवृत्त्या न कालभेदोऽस्ति, द्वयोरप्यष्टमसमयभावित्वेनोक्तत्वादिति । 'नो मणजोगं नो वयजोगं जुंजईत्ति प्रयोजनाभावात्, काययोगचिन्तायां सप्तविधः काययोगः, तत्र-'ओरालियसरीरकायजोगंति योगो-व्यापारः स च वागादेरप्यस्तीति कायेन विशेषितत्वात्काययोगः स चानेकधेति औदारिकशरीरेण विशिष्यते, तत्रोदारैः-शेषपुद्गलापेक्षया स्थूलैः पुद्गलैर्निवृत्तमित्यौदारिकं, तच्च तच्छरीरं चेति समासस्तस्य काययोगऔदारिकशरीरकाययोगः, 'ओरालियमीससरीरकायजोग'ति औदारिकमिश्रकं नाम यच्छरीरं तस्य यः काययोगः स यथा, स च कार्मणीदारिकयोयुगपद्व्यापाररूप औदारिकशरीरिणामुत्पत्तिकाले केवलिसमुद्घाते वा, औदारिकवैक्रिययोरौदारिकाहारकयोर्वा युगपद्व्यापाररूपः, औदारिकशरीरिणां वैक्रियकरणकाले आहारककरणकाले चेति, 'वेउवियसरीरकायजोगंति पूर्ववन्नवरं विक्रिया प्रयोजनमस्येति वैक्रियं-सूक्ष्मतरविशिष्टकार्यकरणक्षमपुद्गलनिवृत्तमित्यर्थः, अयं च वैक्रियलब्धिमतां बादरवायुकायिकपञ्चेन्द्रियतिर्यग्मनुष्याणां देवनारकाणां च स्यादिति | 'वेउषियमिस्ससरीरकायजोगं'ति वैक्रिय सन्मित्रं यत्कार्मणादिना तद्वैक्रियमित्रं तच्च तच्छरीरं चेति समासस्तस्य काययोगो वैक्रियमिश्रशरीरकाययोगः, स च वैक्रियकार्मणयोर्युगपद्व्यापाररूपः, स च देवनारकाणामुत्पत्तिकाले यावत् वैक्रि
॥११॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244