Book Title: Auppatiksutram
Author(s): Abhaydevsuri, Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
औपपा
तिकम्
॥११३॥
स्थिरतासाम्याद्याऽवस्था सा शैलेशी अथवा शीलेशः-सर्वसंवररूपचारित्रप्रभुस्तस्येयमवस्था योगनिरोधरूपेति शैलेशी तां सिद्धाधि० प्रतिपद्यते, ततः 'पुवरझ्यगुणसेढीयं च ण'ति पूर्व-शैलेश्यवस्थायाः प्राग् रचिता गुणश्रेणी-क्षपणोपक्रमविशेषरूपा यस्य तत्तथा, गुणश्रेणी चैवं-सामान्यतः किल कर्म बह्वल्पमल्पतरमल्पतमं चेत्येवं निर्जरणाय रचयति, यदा तु परिणामवि
सू०४३ शेषात्तत्र तथैव रचिते कालान्तरवेद्यमल्पं बहु बहुतरं बहुतमं चेत्येवं शीघतरक्षपणाय रचयति तदा सा गुणश्रेणीत्युच्यते, | स्थापना चैवं /'कम्मति वेदनीयादिकं भवोपग्राहि तीसे सेलेसिमद्धाए'त्ति तस्यां शैलेशीअद्धायां-शैलेशीकाले क्षपयन्निति योगः , एतदेव विशेषेणाह-'असंखेज्जाहिं गुणसेढीहिन्ति असङ्ख्याताभिर्गुणश्रेणीभिः शैलेश्यवस्थाया असङ्ख्यातसमयत्वेन गुणश्रेण्यप्यसङ्ख्यातसमया ततः तस्याः प्रतिसमयभेदकल्पनया असङ्ख्यातागुणश्रेणयो भवन्ति, अतोऽसङ्ख्याताभिः गुणश्रेणीभिरित्युक्तम् , असङ्ख्यातसमयैरिति हृदयम्, 'अणते कम्मसे खवयतो'त्ति अनन्तपुद्गलरूपत्वादनन्तास्तान् कर्माशान्-भवोपग्राहिकर्मभेदान् क्षपयन-निर्जरयन् 'वेयणिज्जाउयणामगोए'त्ति वेदनीयं सातादि आयुः-मनुष्यायुष्क नाम-मनुष्यगत्यादि गोत्रम्-उच्चैर्गोत्रम् ‘इच्चेते'त्ति इत्येतान् 'चत्तारित्ति चतुरः 'कम्मंसे'त्ति कौशान्मूलप्रकृतीः 'जुगवं ख वेइत्ति योगपद्येन निर्जरयतीति । एतच्चैता भाष्यगाथा अनुश्रित्य व्याख्यातं,यदुत-"तदसंखेजगुणाए सेढीए विरइयं पुरा कम्म।
१ तदसङ्ख्येयगुणया श्रेण्या विरचितं पुरा कर्म । समये समये क्षपयन् कर्म शैलेशीकालेन ॥ १ ॥ सर्व क्षपयति तत्पुनर्निर्लेपं किञ्चि-| ३॥ दुपरितने समये । किञ्चिच्च भवति चरमे शैलेश्यां तद्वक्ष्ये ॥२॥ मनुजगतिजातित्रसबादरं च पर्याप्तं सुभगमादेयम् । अन्यतरवेदनीयं नरा-12 सायुरुच्चैः यशोनाम ॥ ३ ॥ सम्भवतो जिननाम नरानुपूर्वी च चरमसमये | शेषा जिनसत्का द्विचरमसमये निस्तिष्ठन्ति (निष्ठां यान्ति) ॥४॥
Jain Education Internalonal
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244