Book Title: Auppatiksutram
Author(s): Abhaydevsuri, Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
एवेत्यर्थः केवलदृष्टिभिरनन्ताभिः केवलदर्शनैरनन्तरित्यर्थः, अनन्तत्वात् सिद्धानामनन्तविषयत्वाद्वा दर्शनस्य केवलदृष्टिभिरनन्ताभिरित्युक्तम् , इह चादौ ज्ञानग्रहणं प्रथमतया तदुपयोगस्थाः सिध्यन्तीति ज्ञापनार्थमिति ॥ १२॥ अथ सिद्धानां निरुपमसुखतां दर्शयितुमाह-'णवि अस्थि'गाहा व्यक्ता, नवरम् 'अवावाहति विविधा आबाधा व्यावाधा तन्निषेधादव्या| बाधा तामुपगतानां-प्राप्तानामिति ॥१३॥ कस्मादेवमित्याह-जं देवाणं'गाहा, 'यतो'यस्माद्देवानाम्-अनुत्तरसुरान्तानां 'सौख्यं त्रिकालिकसुखं सर्वाद्धया-अतीतानागतवर्तमानकालेन पिण्डितं-गुणितं सर्वाद्धापिण्डितं, तथाऽनन्तगुणमिति, तदे| वंप्रमाणं किलासद्भावकल्पनयैकैकाकाशप्रदेशे स्थाप्यत इत्येवं सकललोकालोकाकाशानन्तप्रदेशपूरणेनानन्तं भवति, न च प्राप्नोति मुक्तिसुखं-नैव मुक्तिसुखसमानतां लभते, अनन्तानन्तत्वात्सिद्धसुखस्य, किंविधं देवसुखमित्याह-अनन्ताभिरपि 'वर्गवर्गाभिः' वर्गवगैर्वन्तिमपि, तत्र तद्गुणो वर्गो यथाद्वयोर्वर्गश्चत्वारः तस्यापि वर्गो वर्गवर्गो यथा षोडश एवमनन्तशो वर्गि| तमपि।चूर्णिकारस्त्वाह-अनन्तैरपि वर्गवर्गः-खण्डखण्डैः खण्डितं सिद्धसुखंतदीयानन्तानन्ततमखण्डसमतामपि न लभत इत्यर्थः, ततो नास्ति तन्मानुषादीनां सुखं यत्सिद्धानामिति प्रकृतम् ॥१४॥ सिद्धसुखस्यैवोत्कर्षणाय भङ्यन्तरेणाह-'सिद्धस्स'गाहा, 'सिद्धस्य'मुक्तस्य सम्बन्धी 'सुखः' सुखानां सत्को 'राशिः' समूहः सुखसङ्घातः इत्यर्थः, 'सर्वाद्धापिण्डितः' सर्वकालसमयगुणितो यदि भवेद्, अनेन चास्य कल्पनामात्रतामाह, सोऽनन्तवर्गभक्तो-अनन्तवर्गापवर्तितः सन्समीभूत एवेति भावार्थः, 'सर्वाकाशे'लोकालोकरूपे न मायात्, अयमत्र भावार्थः-इह किल विशिष्टाहादरूपं सुखं गृह्यते, ततश्च यत आरभ्य शिष्टानां सुखशब्दप्रवृत्तिस्तमाहादमवधीकृत्य एकैकगुणवृद्धितारतम्येन तावदसावाहादो विशिष्यते यावद
मुक्तिसुखसमानता लाप्यत इत्येवं सकललाकातं सर्वाद्धापिण्डित,
| 'वर्गवर्गाभिः' वर्गव
मानुपादीना वर्गवर्ग:सायथायोगशवासिखसुखस्यकाकाशानन्तत
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 237 238 239 240 241 242 243 244