Book Title: Auppatiksutram
Author(s): Abhaydevsuri, Dronacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 242
________________ का सिद्धस्व० औपपातिकम् ॥११९॥ वाधान्तरसम्भवात् सुखार्थाभाव इति ॥१८॥ इय' गाहा,'इय' एवं सर्वकालतृप्ताः शश्वद्भावत्वात् अतुलं निर्वाणमुपगताः |सिद्धाः, सर्वदा सकलौत्सुक्यनिवृत्तः, यतश्चैवमतः 'शाश्वतं सर्वकालभावि 'अव्यावाधं व्यावाधावर्जितं सुखं प्राप्ताः सुखिनस्तिष्ठन्तीति योगः, सुख प्राप्ता इत्युक्ते सुखिन इत्यनर्थकमिति चेत् , नैवं, दुःखाभावमात्रमुक्तिसुखनिरासेन वास्तव्यसुखप्रतिपादनार्थत्वादस्य, तथाहि-अशेषदोषक्षयतः शाश्वतमव्याबाधसुखं प्राप्ताः सुखिनः सन्तः तिष्ठन्ति, न तु दुःखाभावमात्रा|न्विता एवेति ॥ १९ ॥ साम्प्रतं वस्तुतः सिद्धपर्यायशब्दान् प्रतिपादयन्नाह-'सिद्धत्ति य' गाहा, सिद्धा इति च तेषां नाम कृतकृत्यत्वाद्, एवं बुद्धा इति केवलज्ञानेन विश्वावबोधात् , पारगता इति च भवार्णवपारगमनात , परंपरगयत्ति-पुण्यबीजसम्यक्त्वज्ञानचरणक्रमप्राप्युपाययुक्तत्वात् परम्परया गता परम्परगता उच्यन्ते,उन्मुक्तकर्मकवचाः सकलकर्मवियुक्तत्वात्, तथा अजरा वयसोऽभावाद् अमरा आयुषोऽभावात् असङ्गाश्च सकलक्लेशाभावादिति ॥ २० ॥ 'निच्छिण्ण'गाहा 'अतुल' गाहा व्यक्तार्थे एवेति ॥२॥२२॥ इति श्रीऔपपातिकवृत्तिः समाप्तेति ॥ चन्द्रकुलविपुलभूतलयुगप्रवरवर्धमानकल्पतरोः ।। कुसुमोपमस्य सूरेः गुणसौरभभरितभवनस्य ॥१॥ निस्सम्बन्धविहारस्य सर्वदा श्रीजिनेश्वराहस्य । शिष्येणाभयदेवा४ ख्यसूरिणेयं कृता वृत्तिः॥२॥ अणहिलपाटकनगरे श्रीमद्रोणाख्यसूरिमुख्येन । पण्डितगुणेन गुणवत्प्रियेण संशोधिता चेयम् ॥ ३ ॥ ग्रन्थाग्रम् ॥ ३१२५॥ ॥ इति श्रीमदभयदेवसूरिसूत्रितश्रीमद्रोणाचार्यशोधितवृत्तियुतमौपपातिकमाद्यमुपाङ्गं समाप्तम् ॥ ११॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 240 241 242 243 244