Book Title: Auppatiksutram
Author(s): Abhaydevsuri, Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
औपपा
तिकम्
॥११४॥
5655555
निरामयम् । सदाऽनियतदेशस्थं, सिद्ध इत्यभिधीयते ॥१॥' यच्चापरे मन्यन्ते-"गुणसत्त्वान्तरज्ञानान्निवृत्तप्रकृतिक्रि-1| सिद्धाधिक याः। मुक्ताः सर्वत्र तिष्ठन्ति, व्योमवत्तापवर्जिताः॥१॥" तदनेन निरस्तं, यच्चोच्यते-सशरीरतायामपि सिद्धत्वप्रतिपादनाय, यदुत-"अणिमाद्यष्टविधं प्राप्यैश्वर्य कृतिनः सदा । मोदन्ते निर्वृतात्मानस्तीर्णाः परमदुस्तरम् ॥१॥ इति ।
सू०४३ तदपीकरणायाह-अशरीरा' अविद्यमानपञ्चप्रकारशरीराः, तथा 'जीवघण'त्ति योगनिरोधकाले रन्ध्रपूरणेन त्रिभागोना-15 ऽवगाहनाः सन्तो जीवघना इति, 'दसणनाणोवउत्त'त्ति ज्ञानं-साकारं दर्शनम्-अनाकारं तयोः क्रमेणोपयुक्ता ये ते तथा, 'निठियह'त्ति निष्ठितार्थाः-समाप्तसमस्तप्रयोजनाः 'निरयण'त्ति निरेजनाः-निश्चलाः 'नीरय'त्ति नीरजसो-बध्यमानकर्मरहिता नीरया वा-निर्गतौत्सुक्याः 'निम्मल'त्ति निर्मलाः पूर्वबद्धकर्मविनिर्मुक्ताः द्रव्यमलवर्जिता वा 'वितिमिर' त्ति विग्रताज्ञानाः 'विसुद्ध'त्ति कर्मविशुद्धिप्रकर्षमुपगताः 'सासयमणागयद्धं कालं चिट्ठति'शाश्वतीम्-अविनश्वरी सिद्धत्वस्याविनाशाद् , अनागताद्धा-भविष्यत्कालं तिष्ठन्तीति 'जम्मुप्पत्तीति जन्मना-कर्मकृतप्रसूत्या उत्पत्तिर्या सा तथा, जन्मग्रहणेन परिणामान्तररूपात्तदुत्पत्तिर्भवतीत्याह, प्रतिक्षणमुत्पादव्ययध्रौव्ययुक्तत्वात्सद्भावस्येति, 'जहण्णेणं सत्त रय-| णीए'त्ति सप्तहस्ते उच्चत्वे सिध्यन्ति महावीरवत् , 'उक्कोसेणं पंचधणुस्सए'त्ति ऋषभस्वामिवद्, एतच्च द्वयमपि तीर्थङ्करा-18 पेक्षयोक्तम् , अतो द्विहस्तप्रमाणेन कूर्मापुत्रेण न व्यभिचारो न वा मरुदेव्या सातिरेकपञ्चधनुःशतप्रमाणयेति, 'साइरेग
॥११४॥ | हवासाउए'त्ति सातिरेकाण्यष्टौ वर्षाणि यत्र तत्तथा तच्च तदायुश्चेति तत्र सातिरेकाष्टवर्षायुषि, तत्र किलाष्टवर्षवयाश्चरणं प्रतिपद्यते, ततो वर्षे अतिगते केवलज्ञानमुत्पाद्य सिध्यतीति, 'उक्कोसेणं पुवकोडाउए'त्ति पूर्वकोट्यायुर्नरः पूर्वकोव्या अन्ते |
OSOSASSASSAGG
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244