Book Title: Auppatiksutram
Author(s): Abhaydevsuri, Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
15054
४ सिध्यतीति न परतः । 'ते णं तत्थ सिद्धा भवंती'ति प्राक्तनवचनाद् यद्यपि लोकाग्रं सिद्धानां स्थानमित्यवसीयते तथापि मुग्धविनेयस्य कल्पितविविधलोकाग्रनिरासतो निरुपचरितलोकाग्रस्वरूपविशेषावबोधाय प्रश्नोत्तरसूत्रमाह-'अत्थि णमित्यादि व्यक्तं, नवरं यदिदं रत्नप्रभा (या) अधस्तदेव लोकाग्रमिति तत्र सिद्धाः परिवसन्तीति प्रश्नः, तत्रोत्तरं-नायमर्थः समर्थ इति, एवं सर्वत्र, से कहिं खाइ णं भंते!'त्ति इत्यत्र सेत्ति-ततः कहिंति-क्व देशे खाइ णंति-देशभाषया वाक्यालङ्कारे 'बहुसमे'त्यादि बहुसमत्वेन रमणीयो यः स तथा तस्मात् 'अबाहाए'त्ति अबाधया-अन्तरेण 'ईसिंपन्भार'त्ति ईषद्-अल्पो न रत्नप्रभादिपृथिव्या इव महान् प्राग्भारो-महत्त्वं यस्याः सा ईषत्प्राग्भारा । नामधेयानि व्यक्तान्येव, नवरं ईसित्ति वा-ईषत्-अल्पा पृथिव्यन्तरापेक्षया, इतिशब्द उपप्रदर्शने, वाशब्दो विकल्पे, 'लोयग्गपडिबुज्झणा इ वत्ति लोकाग्रमिति प्रतिबुध्यते-अवसीयते या लोकाग्रं वा प्रतिबुध्यते यया सा तथा, 'सधपाणभूयजीवसत्तसुहावह'त्ति इह प्राणा-द्वीन्द्रियादयः भूता-वनस्पतयः जीवाः-पञ्चेन्द्रियाः पृथिव्यादयस्तु-सत्त्वाः एतेषां च पृथिव्यादितया तत्रोत्पन्नानां सा सुखावहा शीतादिदुःखहेतूनामभावादिति, 'सेय'त्ति श्वेता, एतदेवाह-'आयंसतलविमलसोल्लियमुणालदगरयतुसारगोक्खीरहारवण्ण'त्ति व्यक्तमेव, नवरम् आदर्शतलं-दर्पणतलं क्वचिच्छङ्घतलमिति पाठः, आदर्शतलमिव विमला या सा तथा, 'सोल्लिय'त्ति कुसुमविशेषः, “सबजुणसुवण्णमई'त्ति अर्जुनसुवर्ण-श्वेतकाञ्चनं अच्छा आकाशस्फटिकमिव 'सण्ह'त्ति श्लक्ष्णपरमाणुस्कन्धनिष्पन्नां श्लक्ष्णतन्तुनिष्पन्नपटवत् 'लण्हत्ति मसृणा घुण्टितपटवत् , 'घडत्ति घृष्टेव घृष्टा खरशानया पाषाणप्रतिमावत्, 'महति मृष्टेव मृष्टा सुकुमारशानया प्रतिमेव शोधिता वा प्रमार्जनिकयेव, अत एव 'णीरय'त्ति नीरजाः-रजोरहिता
05
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244