Book Title: Auppatiksutram
Author(s): Abhaydevsuri, Dronacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 225
________________ यमपरिपूर्णमिति, वैक्रियलब्धिमतां वा तिर्यग्मनुष्याणां विहितवैक्रियशरीराणां तत्त्यागेनौदारिकं गृहृतामिति, आहारगसरीसरकायजोग'तिप्राग्वत् नवरम्-आहारका-विशिष्टतरपुद्गलास्तन्निष्पन्नमाहारकम् , अयं च चतुर्दशपूर्वधरस्य समुत्पन्नविशिष्टप्र-४| योजनस्य कृताहारकशरीरस्य भवतीति, आहारगमीससरीरकायजोग'ति आहारक सन्मित्रं यदौदारिकेण तदाहारकमिश्रं तच्च तच्छरीरं चेति, शेषस्तथैव, अयं चाहारकौदारिकयोयुगपद्व्यापाररूपः, स च कृताहारकस्य तत्त्यागेनौदारिक गृह्णतो भवतीति, |'कम्मगसरीरकायजोग'ति प्राग्वत् , अयं चापान्तरालगतौ केवलिसमुद्घाते वा स्यादिति, 'पढमहमेसु समएसु' इत्यादेरयम-18 भिप्रायः-जीवप्रदेशानां दण्डतया प्रक्षेपे संहारे च प्रथमाष्टमसमययोरौदारिककायव्यापारादौदारिककाययोग एव, द्वितीयषष्ठसप्तमसमयेषु पुनः प्रदेशानां प्रक्षेपसंहारयोरौदारिके तस्माच्च बहिः कार्मणे वीर्यपरिस्पन्दादौदारिककार्मणमिश्रः, तृतीयचतुर्थपञ्चमेषु तु बहिरौदारिकात्कार्मणकायव्यापारादसहायः कार्मणयोग एव, तन्मात्रचेष्टनाद्, इह च यद्यपि मन्थकरणे कपाटन्यायेनौदारिकस्यापि व्यापारः सम्भाव्यते तथाऽपीत एव वचनादसौ कथञ्चिन्नास्तीति मन्तव्यमिति । 'सच्च|मणजोगं जुंजइ, असच्चामोसामणजोगपि जुंजईत्ति मनःपर्यायज्ञानिना अनुत्तरसुरेण वा मनसा पृष्टो मनसैव अस्ति जीव४ एवं कुर्वित्यादिकमुत्तरं यच्छन् , 'सच्चवइजोग'ति जीवादिपदार्थान् प्ररूपयन् 'असच्चामोसावयजोग'ति आमन्त्रणादि-18 | विति, समुद्घातान्निवृत्तश्चान्तर्मुहर्तेन योगनिरोधं करोति २२ ॥४२॥ से णं भंते ! तहा सजोगी सिज्झिहिइ जाव अंतं करेहिइ ?, णो इणढे समठे, से णं पुब्वामेव संणिस्स १ विशिष्टान्तरपुद्गलाः प्र० dain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244