Book Title: Auppatiksutram
Author(s): Abhaydevsuri, Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
'पञ्चायाहिति'त्ति प्रत्याजनिष्यति उत्पत्स्यत इत्यर्थः, 'ठिइवडियं काहिति'त्ति स्थितिपतितं-कुलक्रमान्तर्भूतं पुत्रजन्मोचितमनुष्ठानं करिष्यतः 'चंदसूरदंसणियंति चन्द्रसूरदर्शनिकाभिधानं सुतजन्मोत्सवविशेष 'जागरिय'ति रात्रिजागरिकां सुतजन्मोत्सवविशेषमेव 'निवत्ते असुइजायकम्मकरणे'त्ति निवृत्ते-अतिक्रान्ते अशुचीनाम्-अशौचवतां जातकर्मणां-प्रसवव्यापाराणां यत्करणं-विधान तत्तथा, तत्र 'बारसाहे दिवसे'त्ति द्वादशाख्ये दिवसे इत्यर्थः, अथवा द्वादशानामह्नां समाहारो द्वादशाहं तस्य दिवसो येनासौ पूर्णों भवतीति द्वादशाहदिवसस्तत्र 'अम्मापियरो'त्ति अम्बापितरौ 'इमति इदं | वक्ष्यमाणम् , अयमिति क्वचिदृश्यते, तच्च प्राकृतशैलीवशात् , 'एयारूवं'ति एतदेव रूपं-स्वभावो यस्य नान्यथारूपमित्ये| तद्रूपं 'गोणं'ति गौणं, किमुक्तं भवतीत्याह-गुणनिष्फण्णं'ति गौणशब्दोऽप्रधानेऽपि वर्तत इत्यत उक्तं गुणनिष्पन्नमिति, 'नाम| धेजति प्रशस्तं नामैव नामधेयम् , इह स्थाने पुस्तकान्तरे 'पंचधाइपरिग्गहिए' इत्यादि ग्रन्थो दृश्यते, स च प्राग्वद् व्याख्येयः, किञ्चिच्च तस्य व्याख्यायते-'हत्था हत्थं संहरिजमाणे'त्ति हस्ताद्धस्तान्तरं संहियमाणो-नीयमानः, अङ्कादकं परिभुज्यमानः| उत्सङ्गादुत्सङ्गान्तरंपरिभोज्यमानः उत्सङ्गास्पर्शसुखमनुभाव्यमानः, उवनच्चिजमाणे'त्ति उपनय॑मानो नर्तनं कार्यमाण इत्यर्थः,। | उपगीयमानः-तथाविधवालोचितगीतविशेषेर्गीयमानो गाप्यमानो वा 'उवलालिज्जमाणे'त्ति उपलाल्यमानः क्रीडादिलालनया Fill 'उवगूहिज्जमाणे'त्ति उपगृह्यमानः आलिङ्ग्यमानः 'अवयासिज्जमाणे त्ति अपत्रास्यमानः अपगतत्रासः क्रियमाणः, अपयास्य|मानो वा उत्कण्ठातिरेकान्निर्दयालिङ्गनेनापीब्यमानः, अप्रयास्यमानो वा समीहितपूरणेन प्रयासमकार्यमाणः, 'परिवंदि
१ जन जनने हादिरयम्' इति न्यायसङ्ग्रहोक्तेर्भवति परस्मैपदेऽपि प्रयोगो जनेः.
RAMCELANSLOCALENGALOCAL
25%
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244