SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ 'पञ्चायाहिति'त्ति प्रत्याजनिष्यति उत्पत्स्यत इत्यर्थः, 'ठिइवडियं काहिति'त्ति स्थितिपतितं-कुलक्रमान्तर्भूतं पुत्रजन्मोचितमनुष्ठानं करिष्यतः 'चंदसूरदंसणियंति चन्द्रसूरदर्शनिकाभिधानं सुतजन्मोत्सवविशेष 'जागरिय'ति रात्रिजागरिकां सुतजन्मोत्सवविशेषमेव 'निवत्ते असुइजायकम्मकरणे'त्ति निवृत्ते-अतिक्रान्ते अशुचीनाम्-अशौचवतां जातकर्मणां-प्रसवव्यापाराणां यत्करणं-विधान तत्तथा, तत्र 'बारसाहे दिवसे'त्ति द्वादशाख्ये दिवसे इत्यर्थः, अथवा द्वादशानामह्नां समाहारो द्वादशाहं तस्य दिवसो येनासौ पूर्णों भवतीति द्वादशाहदिवसस्तत्र 'अम्मापियरो'त्ति अम्बापितरौ 'इमति इदं | वक्ष्यमाणम् , अयमिति क्वचिदृश्यते, तच्च प्राकृतशैलीवशात् , 'एयारूवं'ति एतदेव रूपं-स्वभावो यस्य नान्यथारूपमित्ये| तद्रूपं 'गोणं'ति गौणं, किमुक्तं भवतीत्याह-गुणनिष्फण्णं'ति गौणशब्दोऽप्रधानेऽपि वर्तत इत्यत उक्तं गुणनिष्पन्नमिति, 'नाम| धेजति प्रशस्तं नामैव नामधेयम् , इह स्थाने पुस्तकान्तरे 'पंचधाइपरिग्गहिए' इत्यादि ग्रन्थो दृश्यते, स च प्राग्वद् व्याख्येयः, किञ्चिच्च तस्य व्याख्यायते-'हत्था हत्थं संहरिजमाणे'त्ति हस्ताद्धस्तान्तरं संहियमाणो-नीयमानः, अङ्कादकं परिभुज्यमानः| उत्सङ्गादुत्सङ्गान्तरंपरिभोज्यमानः उत्सङ्गास्पर्शसुखमनुभाव्यमानः, उवनच्चिजमाणे'त्ति उपनय॑मानो नर्तनं कार्यमाण इत्यर्थः,। | उपगीयमानः-तथाविधवालोचितगीतविशेषेर्गीयमानो गाप्यमानो वा 'उवलालिज्जमाणे'त्ति उपलाल्यमानः क्रीडादिलालनया Fill 'उवगूहिज्जमाणे'त्ति उपगृह्यमानः आलिङ्ग्यमानः 'अवयासिज्जमाणे त्ति अपत्रास्यमानः अपगतत्रासः क्रियमाणः, अपयास्य|मानो वा उत्कण्ठातिरेकान्निर्दयालिङ्गनेनापीब्यमानः, अप्रयास्यमानो वा समीहितपूरणेन प्रयासमकार्यमाणः, 'परिवंदि १ जन जनने हादिरयम्' इति न्यायसङ्ग्रहोक्तेर्भवति परस्मैपदेऽपि प्रयोगो जनेः. RAMCELANSLOCALENGALOCAL 25% Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy