SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ अम्मडा. औपपातिकम् सू०४० ॥१०१॥ GHO545453 नेन-आर्तादिना आचरित-आसेवितो यः अपध्यानस्य वा यदाचरितम्-आसेवन सोऽनर्थदण्ड इति, 'पमादायरिए'त्ति प्रमादेने-घृतगुडादिद्रव्याणां स्थगनादिकरणे आलस्यलक्षणेन आचरितो यस्तस्य वा यदाचरितं सोऽनर्थदण्डः प्रमादाचरितः प्रमादाचरितं वेति 'हिंसप्पयाणे'त्ति हिंस्रस्य-खड्गादेः प्रदानम्-अन्यस्यार्पणं निष्प्रयोजनमेवेति हिंस्रप्रदानं, 'पावकम्मोवएसे'त्ति पापकर्मोपदेशः-कृष्याधुपदेशः प्रयोजनं विनेति, 'सावज्जेत्तिकट्ट'त्ति यदिदं जलस्य परिमाणकरणं तज्जलं सावद्यमितिकृत्वा, सावद्यमपि कथमित्याह-'जीवत्तिकट्ठत्ति जीवा अप्कायिका एत इतिकृत्वा, अथवा कस्मात्परिपूर्त गृह्णातीत्यत आह-सावद्यमितिकृत्वा, एतदेव कुत इत्याह-जीवा इतिकृत्वा, पूतरकादिजीवा इह सन्तीतिकृत्वेति भावः। 'अण्णउत्थिए वत्ति अन्ययूथिका-अर्हत्सङ्घापेक्षया अन्ये शाक्यादयः 'चेइयाईति अर्हच्चैत्यानि-जिनप्रतिमा इत्यर्थः । 'णण्णत्थ अरहंतेहि वत्ति न कल्पते, इह योऽयं नेति प्रतिषेधः सोऽन्यत्राहयः, अर्हतो वर्जयित्वेत्यर्थः, स हि किल परिव्राजकवेषधारकः अतोऽन्ययूथिकदेवतावन्दनादिनिषेधे अर्हतामपि वन्दनादिनिषेधो मा भूदितिकृत्वा णण्णत्थेत्याद्यधीतं, 'उच्चावएहिंति उच्चावचैः-उत्कृष्टानुत्कृष्टैः। 'आउक्खएणं ति आयुःकर्मणो दलिकनिर्जरणेन ‘भवक्खएण'ति देवभवनि-| बन्धनभूतकर्मणां गत्यादीनां निर्जरणेनेत्यर्थः, 'ठिइक्खएणं ति आयुःकर्मणस्तदन्येषां च केषाञ्चित् स्थितेर्विदलनेनेति 'अणंतरं चयं चइत्त'त्ति देवभवसम्बन्धिनं चयं-शरीरं त्यक्त्वा-विमुच्य अथवा 'चयं चइत्त'त्ति च्यवनं चित्वा-कृत्वेत्यर्थः, oil'अड्डाईति परिपूर्णानि 'दित्ताई'ति दृप्तानि-दर्पवन्ति 'वित्ताईति वित्तानि-व्याख्यातानि शेषपदानि कूणिकवर्णकवद् व्याख्येयानि, 'तहप्पगारेसु कुलेसुत्ति इह कचित् कुले इत्ययं शेषो दृश्यः, 'पुमत्ताए'त्ति पुंस्त्वतया, पुरुषतयेत्यर्थः,18 ०१॥ For Personal & Private Use Only Jain Education Intemanon www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy