SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ मस्येति प्रातिहारिकं तेन पीठम्-आसनं फलकम्-अवष्टम्भनार्थः काष्ठविशेषः शय्या-वसतिः शयनं वा यत्र प्रसारितपादैः सुप्यते संस्तारको-लघुतरं शयनमेव 'सीलबयगुणवेरमणपञ्चक्खाणपोसहोववासेहिं अहापरिग्गहिएहिं तवोकम्महिं अप्पाणं भावमाणे त्ति शीलव्रतानि-अणुव्रतानि गुणा-गुणव्रतानि विरमणानि-रागादिविरतिप्रकाराः प्रत्याख्यानानिनमस्कारसहितादीनि पौषधोपवास:-अष्टम्यादिपर्वदिनेषूपवसनम्, आहारादित्याग इत्यर्थः, 'णो कप्पइ अक्खसोयप्पमाणमेत्तंपि जलं सयराहं उत्तरित्तए' अक्षश्रोतःप्रमाणा-गन्त्रीचक्रनाभिच्छिद्रप्रमाणा मात्रा यस्य तत्तथा, सयराह-अकस्मात् | हेलयेत्यर्थः, 'आहाकम्मिए' इत्यादि व्यक्तं, नवरं 'रइए इ वत्ति रचितम्-औद्देशिकभेदो यन्मोदकचूर्णादि पुनर्मोदक| तया कूरदध्यादिकं वा यत्करम्बकादितया विरचितं तद्रचितमित्युच्यते, इह चेतिशब्द उपप्रदर्शने, वाशब्दो विकल्पे, 'कान्तारभत्ते इ वत्ति कान्तारम्-अरण्यं तत्र भिक्षुकाणां निर्वाहणार्थ यत्संस्क्रियते तत्कान्तारभक्तमिति, 'दुभिक्खभत्ते |इ वत्ति दुर्भिक्षभक्तं यद्भिक्षुका) दुर्भिक्षे संस्क्रियते, औद्देशिकादिभेदाश्चैते, वद्दलियाभत्ते इ वत्ति वर्दलिका-दुर्दिनं 'गिलाण| भत्ते इव'त्ति ग्लानः सन्नारोग्याय यद्ददाति तद् ग्लानभक्तं 'पाहुणगभत्ते इ वत्ति प्राघूर्णकः-कोऽपि क्वचिद्गतो यत्प्रतिसि द्धये संस्कृत्य ददाति प्राघूर्णका वा-साध्वादय इहायाता इति यद्दापयति तत्माघूर्णकभक्तं 'मूलभोयणे इ वत्ति मूलानि|पद्मासि (पद्मसीना)टिकादीनां यावत्करणादिदं पदत्रयं दृश्यं 'कन्दभोयणे इ वत्ति कन्दाः-सूरणकन्दादयः 'फलभोयणे इव'त्ति फलानि आघादीनां 'हरियभोयणे इव'त्ति हरितानि-मधुरतृणकटुकभाण्डादीनि'बीयभोयणे इ वत्ति बीजानि-शालितिलादीनि 'भोत्तए वत्ति भोक्तं वा 'पायए वत्ति पातुं वा आधाकर्मकादिपानकादीनीति। अवज्झाणायरिए'त्ति अपध्या Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy