________________
औपपा
अम्मडा.
तिकम्
सू०४०
॥१०॥
से भिक्षुकत्वाद, अत एव पुस्तके लिखितं यथा 'ऊसियफलिहें'त्यादिविशेषणत्रयं नोच्यते, 'अवंगुयदुवारे'त्ति अपावृत्तद्वारः| कपाटादिभिरस्थगितगृहद्वारः, सद्दर्शनलाभेन न कुतोऽपि पाषण्डिकाद्विभेति, शोभनमार्गपरिग्रहेणोद्घाटशिरास्तिष्ठतीति भाव इति वृद्धव्याख्या, केचित्त्वाहुः-भिक्षुकप्रवेशार्थमौदार्यादस्थगितगृहद्वार इत्यर्थः, इदं चाम्मडस्य न घटते, चियत्तअंतेउरघरदारपवेसी'त्ति चियत्तोत्ति-लोकानां प्रीतिकर एव अन्तःपुरे वा गृहे वा द्वारे वा प्रवेशो यस्य स तथा, इन्प्रत्यय|श्चात्र समासान्तः, अतिधार्मिकतया सर्वत्रानाशङ्कनीयोऽसाविति भावः, अन्ये त्वाहुः-चियत्तोत्ति-नाप्रीतिकरोऽन्तःपुरगृहे द्वारेण नापद्वारेण प्रवेशः-शिष्टजनप्रवेशनं यस्य स तथा, अनीर्ष्यालुताप्रतिपादनपरं चेत्थमिदं विशेषणं, न चाम्मडस्येदं घटते, अन्तःपुरस्यैवाभावादिति, क्वचिदेवं दृश्यते-'चियत्तघरतेउरपंवेसी'ति चियत्तेत्ति-प्रीतिकारिण्येव गृहे वाऽन्तःपुरे | वा प्रविशतीत्येवंशीलो यः स तथा, त्यक्तो वा गृहान्तःपुरयोरकस्मात् प्रवेशो येन स तथा, 'चउद्दसअट्ठमुद्दिपुण्णमा| सिणीसु' त्ति उद्दिष्टा-अमावास्या 'पडिपुण्णं पोसह अणुपालेमाणे'त्ति आहारपौषधादिभेदाच्चतूरूपमपीति, 'समणे निग्गंथे फासुएसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकम्बलपायपुच्छणेणं' अत्र च पडिग्गहत्ति-प्रतिग्रहः पतनहो वा-पात्रं पायपुच्छणंति-पादप्रोक्षणं रजोहरणं 'ओसहभेसज्जेणं'ति औषधम्-एकद्रव्याश्रयं भैषज्यं-द्रव्यसमुदायरूपमथवा औषधं-त्रिफलादि भैषज्यं-पथ्यं 'पाडिहारिएणं पीढफलगसेज्जासंथारएणं पडिलाहेमाणे'त्ति प्रतिहारः-प्रत्यर्पणं प्रयोजन
१ खावासस्थानापेक्षया वा स्यादपि, आगतस्यार्थिनो याचनापूर्णीकरणाद्वा, भक्ता वा तस्येदृशाः स्युर्ये तन्निवासस्थाने सत्रशाला तथा| विधां कुर्युः, उल्लिखितस्फटिकवद्वा निर्मलान्तःकरण इति वा, शेषपदद्वये तु न प्रथमव्याख्यानपक्षे दोषलेशावकाशः.
RSHORROSIOSAARI PORIAI
॥१०॥
Jain Education International
www.jainelibrary.org
For Personal & Private Use Only