________________
श्चेति भवनपतिविशेषाः सुवण्णत्ति-सद्वर्णा ज्योतिष्का इत्यर्थः, क्वचिद्गरुडेत्ति नाधीयते, ततः सुवण्णेत्ति-सुवर्णकुमारा भवनपतिविशेषाः यक्षराक्षसकिन्नरकिम्पुरुषाः व्यन्तरभेदाः, गरुडत्ति-गरुडचिह्नाः सुवर्णकुमाराः, गन्धर्वमहोरगाश्च व्यन्तराः, 'इणमो निग्गन्थे पावयणे'त्ति अस्मिन्निग्रन्थे प्रवचने 'निस्संकिय'त्ति निःसन्देहः 'निकंखिय'त्ति मुक्तदर्शनान्तरपक्षपातः 'निविइगिच्छे'त्ति निर्विचिकित्सकः फलं प्रति निःशङ्कः 'लद्धडे'त्ति लब्धार्थोऽर्थश्रवणतः 'गहियडे'त्ति गृहीतार्थोऽवधारणतः 'पुच्छियडे'त्ति पृष्टार्थः संशये सति 'अहिगयडे'त्ति अधिगतार्थोऽभिगतार्थो वा अर्थावबोधात् 'विणिच्छि| यहे'त्ति विनिश्चितार्थः ऐदम्पर्योपलम्भात्, अत एव 'अहिमिंजपेम्माणुरागरत्ते' अस्थीनि च-कीकसानि मिञ्जा च-तन्मध्यवर्ती धातुविशेषः अस्थिमिञ्जास्ताः प्रेमानुरागेण-सार्वज्ञप्रवचनप्रीतिलक्षणकुसुम्भादिरागेण रक्ता इव रक्ता यस्य स तथा, केनोलेखेनेत्याह-'अयमाउसो! निग्गंथे पावयणे अहे अयं परमटे सेसे अणहे'त्ति, अयमिति-प्राकृतत्वादिदम् 'आउसों' त्ति आयुष्मन्निति पुत्रादेरामन्त्रणं, क्वचित् 'इणमो निग्गन्थे' इति दृश्यते, 'सेसे'त्ति शेष-धनधान्यपुत्रकलत्रमित्रराज्यकुप्रव|चनादिकमिति, 'ऊसियफलिहे'त्ति उच्छ्रितम्-उन्नतं स्फटिकमिव स्फटिक चित्तं यस्य स तथा, मौनीन्द्रप्रवचनावाप्या परिपुष्टमना इत्यर्थः, इति वृद्धव्याख्या, अन्ये त्वाः-उच्छ्रितः-अर्गलास्थानादपनीयोवीकृतो न तिरश्चीनः, कपाटपश्चाभागादपनीत इत्यर्थः, उत्सृतो वा अपगतः परिघा-अर्गला गृहद्वारे यस्यासौ उच्छ्रितपरिघ उत्सृतपरिघो वा, औदार्यातिशयादतिशयदानदायित्वेन भिक्षुकप्रवेशार्थमनर्गलितगृहद्वार इत्यर्थः, इदं च किलाम्मडस्य न सम्भवति, स्वयमेव तस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org