________________
औपपा
अम्मडा०
तिकम्
सू०४०
॥१०२॥
जमाणेत्ति परिवन्धमानः स्तूयमानः, परिचुम्ब्यमान इति व्यक्तं, 'परंगिजमाणे त्ति परयमाणः चङ्गम्यमाणः, एतेषां च संहियमाणादिपदानां द्विवचनमाभीक्ष्ण्यविवक्षयेति 'निवाघाय'ति निर्वातं निव्याघातं च यद्गिरिकन्दरं तदालीन इति। अथाधिकृतवाचना 'साइरेगवरिसजायगंति सातिरेकाण्यष्टौ वर्षाणि जातस्य यस्य स तथा तं 'अत्यत्ति अर्थतो व्याख्यानतः 'करणओ यत्ति करणतः प्रयोगत इत्यर्थः। 'सेहावेहिति'त्ति सेधयिष्यति निष्पादयिष्यति 'सिक्खावेहिति' शिक्षयिष्यतिअभ्यासं कारयिष्यति 'विन्नयपरिणयमेत्ते'त्ति क्वचित्तत्र विज्ञ एव विज्ञकः स चासौ परिणतमात्रश्च-बुद्ध्यादिपरिणामवानेव विज्ञकपरिणतमात्रः, इह मात्राशब्दो बुद्ध्यादिपरिणामस्याभिनवत्वख्यापनपरः, 'नवंगसुत्तपडिबोहिए'त्ति नवाङ्गानि द्वे श्रोत्रे द्वे नेत्रे द्वे घ्राणे एका च जिह्वा त्वगेका मनश्चैकमिति तानि सुप्तानीव सुप्तानि बाल्यादव्यक्तचेतनानि प्रतिबोधितानि-यौवनेन व्यक्तचेतनावन्ति कृतानि यस्य स तथा, आह च व्यहारभाष्य-सोत्ताई नव सुत्ताई' इत्यादि, 'हयजोही'त्ति हयेन-अश्वेन युध्यत इति हययोधी एवं रथयोधी बाहुयोधी च, 'बाहुप्रमर्दी'ति बाहुभ्यां प्रमृट्नातीति बाहुप्रमर्दी 'वियालचारी'त्ति साहसिकत्वाद्विकालेऽपि रात्रावपि चरतीति विकालचारी, अत एव साहसिकः-सात्त्विकः 'अलं भोगसमत्थे ति अत्यर्थ भोगानुभवनसमर्थः, 'णो सन्जिहिति'त्ति न सङ्ग-सम्बन्धं करिष्यति ‘णो रजिहिति'त्ति न राग-प्रेम | भोगसम्बन्धहेतुं करिष्यति 'नो गिज्झिहिति'त्ति नाप्राप्तभोगेष्वाकाङ्क्षा करिष्यतीति ‘णो अज्झोववन्जिहिति'त्ति नाध्युपपत्स्यते-नात्यन्तं तदेकाग्रमना भविष्यतीति 'से जहाणामए'त्ति से इति अथशब्दार्थे अथशब्दश्च वाक्योपक्षेपार्थः, नामेति
१ श्रोत्रादीनि नव सुप्तानि.
॥१०२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org