Book Title: Auppatiksutram
Author(s): Abhaydevsuri, Dronacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 204
________________ औपपा अम्मडा. तिकम् सू०४० ॥१०॥ से भिक्षुकत्वाद, अत एव पुस्तके लिखितं यथा 'ऊसियफलिहें'त्यादिविशेषणत्रयं नोच्यते, 'अवंगुयदुवारे'त्ति अपावृत्तद्वारः| कपाटादिभिरस्थगितगृहद्वारः, सद्दर्शनलाभेन न कुतोऽपि पाषण्डिकाद्विभेति, शोभनमार्गपरिग्रहेणोद्घाटशिरास्तिष्ठतीति भाव इति वृद्धव्याख्या, केचित्त्वाहुः-भिक्षुकप्रवेशार्थमौदार्यादस्थगितगृहद्वार इत्यर्थः, इदं चाम्मडस्य न घटते, चियत्तअंतेउरघरदारपवेसी'त्ति चियत्तोत्ति-लोकानां प्रीतिकर एव अन्तःपुरे वा गृहे वा द्वारे वा प्रवेशो यस्य स तथा, इन्प्रत्यय|श्चात्र समासान्तः, अतिधार्मिकतया सर्वत्रानाशङ्कनीयोऽसाविति भावः, अन्ये त्वाहुः-चियत्तोत्ति-नाप्रीतिकरोऽन्तःपुरगृहे द्वारेण नापद्वारेण प्रवेशः-शिष्टजनप्रवेशनं यस्य स तथा, अनीर्ष्यालुताप्रतिपादनपरं चेत्थमिदं विशेषणं, न चाम्मडस्येदं घटते, अन्तःपुरस्यैवाभावादिति, क्वचिदेवं दृश्यते-'चियत्तघरतेउरपंवेसी'ति चियत्तेत्ति-प्रीतिकारिण्येव गृहे वाऽन्तःपुरे | वा प्रविशतीत्येवंशीलो यः स तथा, त्यक्तो वा गृहान्तःपुरयोरकस्मात् प्रवेशो येन स तथा, 'चउद्दसअट्ठमुद्दिपुण्णमा| सिणीसु' त्ति उद्दिष्टा-अमावास्या 'पडिपुण्णं पोसह अणुपालेमाणे'त्ति आहारपौषधादिभेदाच्चतूरूपमपीति, 'समणे निग्गंथे फासुएसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकम्बलपायपुच्छणेणं' अत्र च पडिग्गहत्ति-प्रतिग्रहः पतनहो वा-पात्रं पायपुच्छणंति-पादप्रोक्षणं रजोहरणं 'ओसहभेसज्जेणं'ति औषधम्-एकद्रव्याश्रयं भैषज्यं-द्रव्यसमुदायरूपमथवा औषधं-त्रिफलादि भैषज्यं-पथ्यं 'पाडिहारिएणं पीढफलगसेज्जासंथारएणं पडिलाहेमाणे'त्ति प्रतिहारः-प्रत्यर्पणं प्रयोजन १ खावासस्थानापेक्षया वा स्यादपि, आगतस्यार्थिनो याचनापूर्णीकरणाद्वा, भक्ता वा तस्येदृशाः स्युर्ये तन्निवासस्थाने सत्रशाला तथा| विधां कुर्युः, उल्लिखितस्फटिकवद्वा निर्मलान्तःकरण इति वा, शेषपदद्वये तु न प्रथमव्याख्यानपक्षे दोषलेशावकाशः. RSHORROSIOSAARI PORIAI ॥१०॥ Jain Education International www.jainelibrary.org For Personal & Private Use Only

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244