________________
औपपा. तिकम्
॥२१॥
शास्ता नायकः, तस्यैव नेता स्वामीत्यर्थः। 'पइटावए तस्यैव प्रतिष्ठापकः, तैस्तैरुपायैर्व्यवस्थापकः। 'समणगपई श्रीवीरव० श्रमणकपतिः, साधुसङ्घाधिपतिः । 'समणगविंदपरिअट्टए' श्रमणा एव श्रमणकास्तेषां वृन्दस्य परिवर्तको-वधिकारी परिकर्षको वा-अग्रगामी तेन वा पर्यायकः-परिपूर्णो यः स तथा । 'चउत्तीसबुद्धवयणातिसेसपत्ते चतुस्त्रिंशत बद्धानां
सु० १० जिनानां वयणत्ति-वचनप्रमुखाः 'सर्वस्वभाषानुगतं वचनं धर्मावबोधकर'मित्यादिनोक्तस्वरूपा येऽतिशेषा-अतिशया|स्तान प्राप्तो यः स तथा । इह च वचनातिशयस्य ग्रहणमत्यन्तोपकारित्वेन प्राधान्यख्यापनार्थम् , अन्यथा देहवैमल्याद| यस्ते पठ्यन्ते, यत आह-“देहं विमलसुयंधं आमयपस्सेयवज्जियं अरुयं । रुहिरं गोक्खीराभं निबीसं पंडुरं मंसं ॥१॥” इत्यादि । 'पणतीससच्चवयणाइसेसपत्ते' पञ्चत्रिंशत् ये सत्यवचनस्यातिशेषा-अतिशयास्तान प्राप्तो यः स तथा, ते चामी वचनातिशयाः-तद्यथा-संस्कारवत्त्वम् १ उदात्तत्वम् २ उपचारोपेतत्वं ३ गम्भीरशब्दत्वम् ४ अनुना|दित्वं ५ दक्षिणत्वम् ६ उपनीतरागत्वं ७ महार्थत्वम् ८ अव्याहतपौवोपर्यत्वं ९ शिष्टत्वं १० असन्दिग्धत्वम् ११ अपहतान्योत्तरत्वं १२ हृदयग्राहित्वं १३ देशकालाव्यतीतत्वं १४ तत्त्वानुरूपत्वम् १५ अप्रकीर्णप्रसृतत्वम् १६ अन्योऽन्यप्रगृहीतत्वम् १७ अभिजातत्वम् १८ अतिस्निग्धमधुरत्वम् १९ अपरमर्मवेधित्वम् २० अर्थधर्माभ्यासानपेतत्वम् २१ उदारत्वं २२ परनिन्दात्मोत्कर्षविप्रयुक्तत्वम् २३ उपगतश्लाघ्यत्वम् २४ अपनीतत्वम् २५ उत्पादिताच्छिन्नकौतूहलत्वम् २६ अद्भु-14
॥२१॥ तत्वम् २७ अनतिविलम्बित्वं २८ विभ्रमविक्षेपकिलिकिञ्चितादिविप्रयुक्तत्वम् २९ अनेकजातिसंश्रयाद्विचित्रत्वम् ३०
१ देहो विमलः सुगन्ध आमयप्रखेदवर्जितः अरुजः । रुधिरं गोक्षीराभं निर्वित्रं पाण्डुरं मांसम् ॥ १॥
SMADAMOMSROSCORECAUSAMSM
Jain Educat
For Personal & Private Use Only
www.jainelibrary.org