________________
औपपातिकम्
जरामरणान्येव करणानि-साधनानि यस्य तत्तथा, तच्च तद्गम्भीरदुःखं च तदेव प्रक्षुभितं-प्रचलितं प्रचुर-प्रभूतं सलिलं-जलं
श्रमणवृ० यत्र स तथा तं, संसारसागरं तरन्तीति योगः, 'संजोगविओगवीइचिंतापसंगपसरियवहबंधमहल्लविउलकल्लोलकलुणविलवि| अलोभकलकलिंतबोलबहुलं' संयोगवियोगा एव वीचयः-तरङ्गा यत्र स तथा, चिन्ताप्रसङ्गः-चिन्तासातत्यमित्यर्थः स एव प्रसृतं-प्रसरो यस्य स तथा, वधाः-हननानि बन्धाः-संयमनानि तान्येव महान्तो-दीर्घा विपुलाश्च-विस्तीर्णाः कल्लोला-महोर्मयो यत्र स तथा, करुणानि विलपितानि यत्र स तथा, स चासौ लोभश्च, स एव कलकलायमानो यो बोलोध्वनिः स बहुलो यत्र स तथा, ततः संयोगादिपदानां कर्मधारयोऽतस्तम्, 'अवमाणणफेणतिबखिसणपुलंपुलप्पभूयरोगवेअणपरिभवविणिवायफरुसधरिसणासमावडियकढिणकम्मपत्थरतरंगरंगतनिच्चमचुभयतोयपटुं' अपमानमेव-अपूजनमेव
फेनो यत्र स तथा, तीव्रखिंसनं च-अत्यर्थनिन्दा पुलम्पुलप्रभूता-अनवरतोद्भूताः या रोगवेदनाः, पाठान्तरे तीव्रखिंसनं ४ प्रलुम्पनानि च प्रभूतरोगवेदनाश्च परिभवविनिपातश्च-पराभिभवसम्पर्कः परुषधर्षणाच-निष्ठुरवचननिर्भर्त्सनानि समा-1|3|| |पतितानि-समापन्नानि बद्धानि यानि कठिनानि-कर्कशोदयानि कर्माणि-ज्ञानावरणादीनि तानि चेति द्वन्द्वः, तत एतान्येव ये प्रस्तराः-पाषाणास्तैः कृत्वा तरङ्गै रङ्गदू-वीचिभिश्चलत् नित्यं-ध्रुवं मृत्युभयमेव-मरणभीतिरेव तोयपृष्ठं-जलोपरितनभागो यत्र स तथा, ततः कर्मधारयः, अथवा अपमानफेनमिति तोयपृष्ठस्य विशेषणम्, अतो बहुव्रीहिरेवातस्तं, 'कसायपायालसंकुलं' कषाया एव पाताला:-पातालकलशास्तैः सङ्कलो यः स तथा तं, 'भवसयसहस्सकलुसजलसंचयं' भवशतसहस्राण्येव कलुषो जलानां सञ्चयो यत्र स तथा तं, पूर्व जननादिजन्यदुःखस्य सलिलतोक्ता इह तु भवानां जन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org