________________
सिवस्स वा वेसमणस्स वा देवस्स वा नागस्स वा जक्खस्स वा भूअस्स वा मुगुदस्स वा अजाए वा दुग्गाए वा कोकिरियाए वा उवलेवणसंमजणआवरिसणधूवपुप्फगंध
मल्लाइआइं दव्वावस्सयाइं करेंति, से तं कुप्पावयणियं दवावस्सयं (सू० २०) अथ किं तत् कुमावनिक द्रव्यावश्यकम् ?, अत्र निर्वचनम्-'कुप्पावयणियं व्यावस्सयं जे इमें इत्यादि, कुत्सितं प्रवचनं येषां ते कुप्रवचनास्तेषामिदं कुप्रावनिक द्रव्यावश्यकं, किं पुनस्तदित्याह'जे इमे इत्यादि, य एते चरकचीरिकादयः प्रभातसमये इन्द्रस्कन्दादेरुपलेपनादि कुर्वन्ति तत् कुप्रावचनिकं द्रव्यावश्यकमिति समुदायार्थः ॥ तत्र धाटिवाहकाः सन्तो ये भिक्षां चरन्ति ते चरकाः, अथवा ये भुञ्जानाश्चरन्ति ते चरकाः, रथ्यापतितचीरपरिधानाचीरिकाः, अथवा येषां चीरमयमेव सर्वमुपकरणं ते चीरिकाः, चर्मपरिधानाचर्मखण्डिकाः, अथवा चर्ममयं सर्वमेवोपकरणं येषां ते चर्मखण्डिकाः, ये भिक्षामेव भुञ्जते न तु स्वपरिगृहीतगोदुग्धादिकं ते भिक्षोण्डाः, सुगतशासनस्था इत्यन्ये, पाण्डुराङ्गा भस्मोद्धूलितगात्राः, विचित्रपादपतनादिशिक्षाकलापयुक्तवराटकमालिकादिचर्चितवृषभकोपायतः कणभिक्षाग्राहिणो गोतमाः, गोचर्यानुकारिणो गोव्रतिकाः, ते हि वयमपि किल तिर्यक्षु वसाम इति भावनां भावयन्तो गोभिर्निर्गच्छन्तीभिः सह निर्गच्छन्ति स्थिताभिस्तिष्ठन्त्यासीनाभिरूपविशन्ति भुञानाभिस्तदेव तृणपत्रपुष्पफलादि भुञ्जन्ति,
* ॐॐॐॐॐ
Jain Education
a
l
For Private & Personel Use Only
emainelibrary.org