Book Title: Anusandhan 2015 12 SrNo 68
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
डिसेम्बर - २०१५
पण लेखक श्रीदेवसुन्दरसूरिजीना परिवारमांथी ज कोई होय ते सहज समजाय तेम छे. रचनासंवत् पण १४६० थी १४८० वच्चे अनुमानी शकाय छे. केमके एक तरफ श्रीज्ञानसागरसूरिजीना सं. १४६०मां स्वर्गगमननो आमां उल्लेख छे, बीजी तरफ श्रीदेवसुन्दरसूरिजीना सं. १४८० आसपासना स्वर्गगमननो आमां उल्लेख नथी.
मूळ पानामां हांसियामां चारेक टिप्पणो हतां, ते अत्रे पण टिप्पणरूपे जोड्यां छे.
श्रीवज्रस्वामिशाखायां चान्द्रे कुले कौटिकगणे बृहद्गच्छे श्रीजगच्चन्द्रसूरयः । तैश्चैत्रावाल-श्रीदेवभद्रगणिभ्यश्चारित्रोपसम्पद् गृहीता । श्रीजगच्चन्द्रसूरीणां यावज्जीवमाचामाम्लाभिग्रहस्तेन सं. १२८५ वर्षे गच्छस्य तपा इति नाम । तैः स्वशिष्यस्य श्रीदेवेन्द्रसूरीणां श्रीदेवभद्रगणिशिष्य-श्रीविजयचन्द्रसूरीणां च सूरिपदं
ददे ।
श्रीदेवेन्द्रसूरिकृता ग्रन्थास्त्वेते - दिनकृत्यसूत्रवृत्ती, नव्यकर्मग्रन्थपञ्चकसूत्रवृत्ती, सिद्धपञ्चाशिकासूत्रवृत्ती, धर्मरत्नवृत्तिः, सुदर्शनाचरित्रम्, त्रीणि भाष्याणि, सिरिउसहस्तवादयश्च । चतुर्वेदनिर्णयदातॄणां श्रीदेवेन्द्रसूरीणां श्रीस्तम्भतीर्थचतुष्पथस्थिते श्रीकुमरविहारे देशनायां १८ शतमुखवस्त्रिकाः । नौवित्तब्राह्मणादयः सभ्याः मन्त्रिवस्तुपालादयश्च क्रियाबहुमानं गाढं वहन्ति । प्रह्लादनपुरे पाल्हणविहारे सं. १३०४ श्रीविद्यानन्दसूरीणां सूरिपदम् । तदा तन्मण्डपात् कुङ्कमवृष्टिः । तदा पाल्हणविहारे नित्यं ५०० वीसलपुरीभोगः ।
__२७ वर्षे श्रीदेवेन्द्रसूरयो मालवस्थिताः कार्मणविस्मृतश्रीसूरिमन्त्रा विद्यापुरस्थश्रीविद्यानन्दसूरयश्च १३ दिनान्तरे दिवं जग्मुः । २३ वर्षे श्रीविद्यानन्दसूरिभ्रातृ-धर्मकीर्तिपरनामक-श्रीधर्मघोषसूरीणामुपाध्यायानां सूरिपदम् । तैर्ज्ञानातिशयाद् योग्यतामवधार्य सा० पेथडः परिग्रहपरिमाणं सक्षिपन् नियम-भङ्गसम्भावनया नाऽनुज्ञातः । तेन च ९८ प्रासादाः, ७ ज्ञानकोशाः, १२ घटीसुवर्णेन श्रीशत्रुञ्जये स्वर्णप्रासादः२ । साधर्मिकवेषागमने ३२ वर्षे ब्रह्मचारी योऽभूत् । तत्सुतेन झांझणेन
१. वीरधवल-भीमसीहनामानौ भ्रातरौ । २. २१ घटी सुवर्णेन सुवर्णमयी ध्वजा श्रीशत्रुञ्जये गिरनारतीर्थे च संलग्न दत्ता ।

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147