Book Title: Anusandhan 2015 12 SrNo 68
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१२
अनुसन्धान-६८
२ - श्रीजयानन्दसूरि[१] - श्रीदेवसुन्दरसूरीणां २ सूरिपदं दत्तम् । तेषु श्रीपद्मतिलकसूरयः श्रीसोमतिलकसूरिभ्यः पर्यायज्येष्ठा एकं वर्षं जीविताः । येषां यतना वचनातिगा।
श्रीचन्द्रशेखरसूरीणां १३७३ जन्म, ८५ दीक्षा, ९२ वर्षे सूरिपदं, १४२३ स्वर्गः । उषितभोजनकथा, यवराजर्षिकथा, श्रीमत्स्तम्भनकहारबन्धादिस्तवनानि तत्कृतानि । धूलिक्षेपे स्मृतौ च व्याघ्र-गेहरिकटलनम् ।
श्रीजयानन्दसूरीणां १३८० वर्षे जन्म, ९२ वर्षे आषा० शु० ७ शुक्रे धारायां दीक्षा । साजणनामा भ्राताऽमानयन् देवतया निशि चपेटयाऽऽहतो दीक्षाग्रहणमनुमेने । सं. १४२० वर्षे वैशा० १० अणहिल्लपुरे सूरिपदं, १४४१ दिवङ्गताः । तत्कृतग्रन्थाः - श्रीस्थूलभद्रचरित्रं, जावडिकथा, स्तवनानि च ।
श्रीदेवसुन्दरसूरीणां १३९६ वर्षे जन्म, १४०४ दीक्षा महेश्वरे, १४२० अणहिल्लपुरे सूरिपदम् । मूंगडीसरसि कणयरीपायोगिशिष्येण उदायीपायोगिना सभक्ति नमस्कृताः । सं० नरीयादिपृष्टः स जगौ- “कणयरीपागुर्वादेशाद् युगोत्तमत्वेन नता" इति ।
नित्यनिरपायवैराग्यकराणां श्रीज्ञानसागरसूरीणां १४०४ वर्षे जन्म, १७ दीक्षा, १४४१ सूरिपदं, ६० दिवङ्गताः । तदैव कर्पूरादिभोगोद्ग्राहक-खरतर सं० गोवलेन "वयं तुर्ये कल्पे स्म' इति स्वप्नो लेभे । श्रीमदावश्यकौघनियुक्तिप्रभृत्यनेकग्रन्थावचूर्णयः । श्रीकैवल्या० मुनिसुव्रतस्तवो घोघानवखण्डश्रीपार्श्वस्तवादि च तत्कृतानि ।
__ श्रीकुलमण्डनसूरीणां १४०९ वर्षे जन्म, १७ दीक्षा, ४२ सूरिपदं, १४५५ दिवङ्गताः । सिद्धान्तालापकोद्धारः, विश्वश्रीद्वेत्यष्टादशारचक्रबन्धस्तवो गरीयो गुण इति हारबन्धस्तवादि च तत्कृतानि ॥छ।।

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147