SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ १२ अनुसन्धान-६८ २ - श्रीजयानन्दसूरि[१] - श्रीदेवसुन्दरसूरीणां २ सूरिपदं दत्तम् । तेषु श्रीपद्मतिलकसूरयः श्रीसोमतिलकसूरिभ्यः पर्यायज्येष्ठा एकं वर्षं जीविताः । येषां यतना वचनातिगा। श्रीचन्द्रशेखरसूरीणां १३७३ जन्म, ८५ दीक्षा, ९२ वर्षे सूरिपदं, १४२३ स्वर्गः । उषितभोजनकथा, यवराजर्षिकथा, श्रीमत्स्तम्भनकहारबन्धादिस्तवनानि तत्कृतानि । धूलिक्षेपे स्मृतौ च व्याघ्र-गेहरिकटलनम् । श्रीजयानन्दसूरीणां १३८० वर्षे जन्म, ९२ वर्षे आषा० शु० ७ शुक्रे धारायां दीक्षा । साजणनामा भ्राताऽमानयन् देवतया निशि चपेटयाऽऽहतो दीक्षाग्रहणमनुमेने । सं. १४२० वर्षे वैशा० १० अणहिल्लपुरे सूरिपदं, १४४१ दिवङ्गताः । तत्कृतग्रन्थाः - श्रीस्थूलभद्रचरित्रं, जावडिकथा, स्तवनानि च । श्रीदेवसुन्दरसूरीणां १३९६ वर्षे जन्म, १४०४ दीक्षा महेश्वरे, १४२० अणहिल्लपुरे सूरिपदम् । मूंगडीसरसि कणयरीपायोगिशिष्येण उदायीपायोगिना सभक्ति नमस्कृताः । सं० नरीयादिपृष्टः स जगौ- “कणयरीपागुर्वादेशाद् युगोत्तमत्वेन नता" इति । नित्यनिरपायवैराग्यकराणां श्रीज्ञानसागरसूरीणां १४०४ वर्षे जन्म, १७ दीक्षा, १४४१ सूरिपदं, ६० दिवङ्गताः । तदैव कर्पूरादिभोगोद्ग्राहक-खरतर सं० गोवलेन "वयं तुर्ये कल्पे स्म' इति स्वप्नो लेभे । श्रीमदावश्यकौघनियुक्तिप्रभृत्यनेकग्रन्थावचूर्णयः । श्रीकैवल्या० मुनिसुव्रतस्तवो घोघानवखण्डश्रीपार्श्वस्तवादि च तत्कृतानि । __ श्रीकुलमण्डनसूरीणां १४०९ वर्षे जन्म, १७ दीक्षा, ४२ सूरिपदं, १४५५ दिवङ्गताः । सिद्धान्तालापकोद्धारः, विश्वश्रीद्वेत्यष्टादशारचक्रबन्धस्तवो गरीयो गुण इति हारबन्धस्तवादि च तत्कृतानि ॥छ।।
SR No.520569
Book TitleAnusandhan 2015 12 SrNo 68
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2015
Total Pages147
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy