________________
डिसेम्बर २०१५
कण्ठस्थौ । एकदा भीमपल्ल्यां चतुर्मासीमवस्थिता एकादशस्वपरेष्वाचार्येषु वारयत्स्वपि कार्तिकद्वये प्रथमे कार्तिके चतुर्मासकं प्रतिक्रम्य विहृताः । पश्चाच्च ग्रामभङ्गोऽ-भवत् । तैः स्वप्नाद् वलित्वा कोडीनारे समागत्याऽम्बायाः कायोत्सर्गः कृतः ।
११
ग्रन्थास्तु – यतिजीतकल्पः सविस्तरः । यत्राऽखिलेति २८ स्तुतयः । ज(जि)नेन येन २७ स्तुतयः, श्रीमद्धर्मकृत्यादयः ।
श्रीसोमप्रभसूरीणां शिष्याः ४ – श्रीविमलप्रभसूरि १ श्रीपरमानन्दसूरि २ श्रीपद्मतिलकसूरि ३ श्रीसोमतिलकसूरयः ४ । १३५७ वर्षे श्रीधर्मघोषसूरिअनन्तरं श्रीसोमप्रभसूरिभिः श्रीविमलप्रभसूरीणां पदं ददे। ते च स्तोकवर्षजीविताः । ततः स्वायुर्ज्ञात्वा ७३ वर्षे श्रीपरमानन्दसूरि-श्रीसोमतिलकसूरीणां द्वयेषां सूरिपदं दत्त्वा मासत्रयेण श्रीसोमप्रभसूरयो दिवङ्गताः । अन्यत्र क्वापि पुरे तद्दिने पात्रावतीर्णदेवतावच: – “तपाचार्याः प्रथमे सौधर्मे कल्पे उत्पन्ना इति प्रवादोऽधुना मया मेरौ देवमुखात् श्रुतः” । श्रीपरमानन्दसूरयो वर्षचतुष्कं जीविताः ।
संवत् १३५५ वर्षे माघे श्रीसोमतिलकसूरिवराणां जन्म, ६९ दीक्षा, ७३ वर्षे सूरिपदम् । १४२४ वर्षे दिवङ्गता महाभाग्यसाराः । श्रीसोमप्रभसूरिपादैः श्रीसोमतिलकसूरीणां गृहस्थत्वे क्षुल्लकत्वे वा पृष्टौ भारमोचनं कृतं रात्रौ । हास्यात् क्षुल्लेनोक्तं - मुञ्चत भारं सर्वमुद्धरिष्यामीति प्रतिवचनम् । मालवके सन्ध्यायां शकुनविशेषादन्यत्र संस्तारककरणम् । पूर्वसंस्तारकस्थाने शिर: प्रदेशस्थाने मुक्तमात्रकस्य केनापि प्रत्यनीकेन शिलामोचनेन भञ्जनम् । गुर्जरधरित्र्यां क्वापि क्षेत्रे उपाश्रयद्वारे पाषाणोपरि पादमोचने किञ्चित् तात्कालिकप्रतिभया पाषाणाधोदुष्टकृतदुष्टनिष्कासनम् । आवश्यकयोरन्धकारे रजोहरणचालने तेजोदर्शनम् । क्वचिद् व्यन्तरावतारे "वयं युष्माकं तेजः सोढुं न शक्ता" इति व्यन्तरकथनम् । इत्यादयः कियन्तोऽवदाता ज्ञातुं शक्याः ? सर्वायुः ६९ ।
तद्ग्रन्थाः – बृहन्नव्यक्षेत्रसमाससूत्रं, सत्तरिसयठाणं, यत्राऽखिल२८-जय वृषभ २८ – स्वकृतचतुर्थार्थ श्रीतीर्थराजः पद० स्तुति १ स्रस्ताशर्मा वृत्तयः, नत्वा त्वत्पादयोः स्तुतयः, शुभभावानतः श्रीमद्वीर ! स्तुवे० इत्यादि स्तवः कमलबन्धः, शिवशिरसि ० - श्रीनाभिसम्भव ० - श्रीशैवेयं शिवादि बहुस्तवनानि । श्रीसोमतिलकसूरिभिः क्रमेण श्रीपद्मतिलकसूरि १
-
श्री चन्द्रशेखरसूरि