Book Title: Anusandhan 1999 00 SrNo 14
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
52
करणं लक्ष्यं, व्यापारवदसाधारणक(का)रणत्वं लक्षणम्। तथाऽपि करणं इतरेभ्यो भिद्यते, व्यापारवदसाधारणकारणत्वात् । इत्थं च हेतु-साध्ययोरभेदः स्यात् तदर्थं इदं करणत्वेन व्यवहर्त्तव्यम् , व्यापारवदसाधारणकारणत्वात् । अत्र करणत्वेन व्यवहारः साध्यः, व्यापारवदसाधारणकारणत्वं हेतुः। तथा च हेतु-साध्ययोरभेदः। इति करणलक्षणपदकृत्यानि ।
तत्र साक्षात्काररूपप्रमाकरणं प्रत्यक्षम् । साक्षात्कारत्वं च साक्षात् करोमीत्यनुगतप्रतीतिसाक्षिको जातिविशेषः । न चेयं प्रतीतिरिन्द्रियजन्यानविषया, ज्ञानमात्रस्य मनोरूपेन्द्रियजन्यत्वात्, इन्द्रियाप्रतीतावपि तथा प्रतीतेश्च । नाऽपि चाक्षुषत्वादिजातिविषया, अननुगतत्वात् । यद्वा जन्यधीजन्यमात्रवृत्तिजातिशून्यज्ञानत्वं साक्षात्कारत्वमिति । अस्याऽर्थः - धी: ईश्वरधीः, तज्जन्या धीः साक्षात्कारधीः, तन्मात्रवृत्तिजाति: साक्षात्कारत्वं, तद्वान् साक्षात्कारः। तत्र साक्षात्कारत्वशून्यत्वे सति ज्ञानत्वाभावादव्याप्तिः अनुमितावतिव्याप्तिश्च, तत्र साक्षात्कारशून्यत्वे सति ज्ञानत्वस्य सत्त्वाात् । तद्वारणार्थं प्रथमजन्यपदम् , ईश्वरज्ञानस्य जनयत्वाभावात् । जन्यधीः साक्षात्कारधीः, तन्मात्रवृत्तिजातिः साक्षात्कारत्वं; तच्छून्यत्वे सति साक्षात्कारे ज्ञानत्वं नास्तीति साक्षात्कारेऽव्याप्तिः, अनुमित्यादावतिव्याप्तिश्च । अनु मितौ जन्यधी: साक्षात्कारधीस्तन्मात्रवृत्तिजातिः साक्षात्कारत्वं; तच्छून्यत्वे सति ज्ञानत्वस्य सत्त्वात् । तद्वारणार्थं द्वितीयजन्यपदम् । जन्यधीर्व्याप्तिधीः, तज्जन्याधीरनु-मितिधीः, तद्वृत्तिजातिः अनुभवत्वं; तच्छून्यत्वे सति साक्षात्कारे ज्ञानत्वाभावादव्याप्तिस्तद्वारणाय मात्रपदम्। जन्यधीनिर्विकल्पकधीस्तज्जन्याधी: सविकल्पकधीस्तन्मात्रवृत्तिधर्मः सविकल्पकत्वं; तच्छून्यत्वे सति साक्षात्कारे ज्ञानचाभावादव्याप्तिः । तद्वारणाय जातिपदम् ।
सविकल्पकत्वं च न जाति:, चाक्षुषत्वादिना साङ्कर्यात्। चाक्षुषत्वाभावसमानाधिकरणत्वं त्वाचसविकल्पके, सविकल्पकत्वाभावसमानाधिकरणत्वं
८. मुद्रिते पृ. १४ । ९. जातिविशेष एव मु.। १०. ज्ञानत्व० मु.। ११. ज्ञानत्वं तत् मु.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144