Book Title: Anusandhan 1999 00 SrNo 14
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
62
तिस्तस्याः सत्त्वात् । पदविषयकत्वाव्यभिचारिजाति: उपमितित्वं तच्छून्यत्वस्य सत्त्वाच्च। तद्वारणाय प्रथमं जातिशून्यत्वमिति पदम्। अनुभवत्वाव्यापकजातिशून्यत्वे सति पदविषयकत्वाव्यभिचारिजातिशून्यत्वे सति धीत्वमित्युक्तेऽसम्भवः, शाब्दे ज्ञाने पदविषयकत्वाव्यभिचारिजातिः उपमितित्वं तच्छून्यत्वस्य सत्त्वेऽपि अनुभवत्वाव्यापिका जातिः शाब्दत्वं तच्छून्यत्वस्याऽसत्त्वात् । तद्वारणाय जन्यपदज्ञानजन्यत्वव्यभिचारित्वं अनुभवत्वाव्यापकजातेर्विशेषणं तथा च जन्यपदज्ञानजन्यत्वव्यभिचारिणी या अनुभवत्वाव्यापिका जातिः प्रत्यक्षत्वादि तच्छून्यत्वस्य शाब्दे सत्त्वात् । नाऽसम्भवः, जन्यपदज्ञानजन्यत्वव्यभिचारिजातिशून्यत्वे सति पदविषयकत्वाव्यभिचारिजातिशून्यधीत्वमित्युक्ते असम्भव एव । शाब्दज्ञाने पदविषयकत्वाव्यभिचारिणी जातिः उपमितित्वं, तच्छून्यस्य सत्त्वेऽपि जन्यपदज्ञानजन्यत्वव्यभिचारिणी जातिः अनुभवत्वं तच्छून्यत्वस्याऽसत्त्वात् । तद्वारणाय अनुभवत्वाव्यापकत्वं जातिविशेषणम्। तथा च जन्यपदज्ञानजन्यत्वव्यभिचारिणी अनुभवत्वस्याऽव्यापिका या जातिः प्रत्यक्षत्वादि तच्छून्यत्वस्य शाब्दे सत्त्वान्नाऽसम्भवः ।
पदधीजन्यत्वव्यभिचारिअनुभवत्वाव्यापकजातिशून्यत्वे सति पदविषयकत्वाव्यभिचारिजातिशून्यधीत्वमित्युक्तेऽनुमितावतिव्याप्तिः। पदधीः ईश्वरधी:, तज्जन्यत्वव्यभिचारिणी नित्यनिष्ठा जातिस्तच्छून्यत्वस्य पदविषयकत्वाव्यभिचारिणी जातिः उपमितित्वं तच्छून्यत्वस्य च अनुमितौ सत्त्वात् । तद्वारणाय प्राथमिकं जन्यपदम् । तथा च जन्यपदधीजन्यत्वव्यभिचारिणी अनुभवत्वाव्यापिका जातिः अनुमितित्वादि तच्छून्यत्वस्याऽनुमितौ सत्त्वान्नाऽतिव्याप्तिः । जन्यपदज्ञानजन्यत्वव्यभिचारिअनुभवत्वाव्यापकजातिशून्यत्वे सति धीत्वमित्युक्ते उपमितावतिव्याप्तिः । तद्वारणाय पदविषयकत्वाव्यभिचारिजातिशून्यत्वे सतीति ।। तथा चौपमितौ जन्यपदज्ञानजन्यत्वव्यभिचारिअनुभवत्वाव्यापक-जातिः प्रत्यक्षत्वादि तच्छून्यत्वस्य सत्त्वेऽपि पदविषयकत्वाव्यभिचारिजातिः उपमितित्वं, तच्छून्यत्वस्याऽसत्त्वात् नाऽतिव्याप्तिः । जातावतिव्याप्तिवारणाय धीपदम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144