Book Title: Anusandhan 1999 00 SrNo 14
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________ _99 // 29 // यत्कृष्णानि दिशां मुखानि तनुषे यद्वाऽर्जसि प्रोषितस्त्रीचेतांसि दधासि यद्भयभरं भूयस्तडिद्विभ्रमैः / एतद्वारिद ! बाह्यमेव भवतो मध्ये तु नैसर्गिकं तत्पुष्यत्यमृतं यदत्र जगतां जीवातवे जायते ||28|| नमस्यामो देवाननु हतविधेस्तेऽपि वशगा: विधिर्वन्द्यः सोऽपि प्रतिनियतकमैकफलप्रदः / फलं कर्मायत्तं यदि किममरैः किं च विधिना नमः सत्कर्मेभ्यो विधिरपि न येभ्यः प्रभवति धर्मोऽयं धनवल्लभेषु धनदः कामार्थिनां कामदः सौभाग्यार्थिषु तत्प्रदः किमपरं पुत्रार्थिनां पुत्रदः / राज्यार्थिष्वपि राज्यदः किमथवा नानाविकल्पैर्नृणां तत्कि यन्न ददाति किं च तनुते स्वर्गापवर्गावपि // 30 // न राज्ञामाज्ञाऽत्र प्रभवति परत्र प्रतिकृतौ न पुत्रो मित्रं वा भवति न कलत्रं न सुजनः / न पतिवित्तं वा बहुभिरथवा किं प्रलपितैः सहाय: संसारे [विमल? ]जिनधर्मः परमिह // 31 // मार्गे लोकः कति[पय]पदक्षेपसाध्ये पुरस्तात् निर्वाहो मे कथमिति भवेच्चिन्तया व्यग्रचित्तः / संसाराख्ये पुनरिह पथि प्रत्यहं लङ्घनीये नि:सीमेऽस्मिन् किमिति कुधियः सुस्थिताः सञ्चरन्ति // 32 // भवति सुभगमूर्तिः खेचरश्चक्रवर्ती धनपतिरवनीशो वासुदेवो विपश्चित् / किमिह बहुभिरुक्तैर्लभ्यते सर्वमेको निरवधिभववाझै दुर्लभो जैनधर्मः // 33 // Jain Education International For Private & Personal Use Only www.jainelibrary.org

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144