Book Title: Anusandhan 1999 00 SrNo 14
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 71
________________ 66 ओदनः पच्यते इत्यत्र चैत्रकर्तृकपाकजन्यफलशाली ओदनः इति शाब्दबोधः । चैत्ररूपो नामार्थः कर्तृत्वरूपप्रत्ययार्थे अन्वेति । कर्तृत्वं धात्वर्थे पाके अन्वेति । तथा च कर्तृत्वरूपविभक्त्यर्थद्वारा चैत्ररूपो नामार्थः धात्वर्थे पाकेऽन्वेति न तु साक्षात् । इत्थं च निरूपितत्वसम्बन्धेन चैत्रीयकर्तृत्वविशिष्टपाकजन्यफ-लशाली ओदनः इति शाब्दबोधः । जनकतासम्बन्धेन चैत्रविशिष्टपाकजन्यफ-लशाली ओदन इति शाब्दबोधे तु चैत्रः ओदनः पच्यते इति प्रयोगापत्तेः । जनकतासम्बन्धेन पाके चैत्रवैशिष्ट्यं तु तदुपस्थापकपदाभावेऽपि संसर्गतयेति न दोषः । घटमित्यत्र घटवत्कर्मत्वमित्यन्वयबोधः । अत्र घट इति पदं अम्पदसमभिव्याहृतमेव घटवत्कर्मत्वमित्यन्वयबोधजनकम् । अतो घटपदस्य घटवत्कर्मत्वमित्यन्वयबोधे अम्पदसमभिव्याहार: आकाङ्क्षा। अत्र आधारतासम्बन्धेन कर्मत्वं घटे, आधेयतासम्बन्धेन घट: कर्मत्वे । घटमानयेत्यत्र घटवत्कर्मत्ववदानयनविशिष्टाकृतिरित्यर्थः । आनयेत्यत्राऽऽनयनविशिष्टाकृतिरित्यर्थः । तथा च नीञ्पदं हिसमभिव्याहृतमेव आनयनविशिष्टाकृतिरित्यन्वयबोधजनकम्। अतो नीपदस्य ही(हि)पदसमभिव्याहार: आनयविशिष्टा-कृतिरिति बोधे आकाङ्क्षा । गामानयेत्यत्र गोकर्मकानयनविशिष्टाकृतिः। दण्डेन गामानयेत्यत्र दण्डकर्तृकगोकर्मकानयनविशिष्टाकृतिरित्यर्थः । विशिष्टज्ञानत्वावच्छिन्न प्रति असंसर्गाग्रहत्वेन कारणत्वे भूतले घट इति लौकिक ज्ञानं न स्यात् , भूतलेऽनुमित्यात्मकघटासंसर्गग्रहस्य सत्त्वात्। तद्वारणार्थं लौकिकसाक्षात्कारातिरिक्तत्वं विशेषणम् । लौकिकसाक्षात्कारतिरिक्तविशिष्टज्ञानत्वावच्छिन्नं प्रति असंसर्गाग्रहत्वेन कारणत्वे शङ्के अलौकिक: पीतत्वभ्रमो न स्यात् , शो पीतत्वासंसर्गग्रहस्य सत्त्वात् । तद्वारणाय पित्तादिदोषजन्यत्वं विशेषणम्। तथा च लौकिक साक्षात्कारातिरिक्तपित्तादिदोषाजन्यविशिष्टज्ञान-त्वेन असंसर्गाग्रहत्वेन कार्यकारणभावः । वस्तुतस्तु शङ्के पीतत्वभ्रमस्याऽपि लौकिकत्वादलौकिकत्वेन विशेषणादेव न व्यभिचार इति पित्तादिदोषाजन्यत्वं विशेषणं चिन्त्यम् । ★ चैत्रविशिष्टो यः पाकस्तज्जन्यं यत्फलं तच्छाली। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144