Book Title: Anusandhan 1999 00 SrNo 14
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 62
________________ 57 जन्यत्वव्यभिचारि जातिमदनुभवत्वं अनुमितित्वमिति लक्षणान्तरम् । । जन्यशब्दधीजन्यत्व(त्वा)व्यभिचारि जातिमदनुभवत्वं इति चेत् - प्रत्यक्षत्वजातिमादाय व्यभिचारः । तथा हि - जन्या चाऽसौ शब्दधीश्च जन्यशब्दधीः। उपमितिः शाब्दधीश्च उभे अपि जन्यं यत् पदज्ञानं तज्जन्ये अतिदेशवाक्यार्थज्ञानं शब्दविषयकत्वाच्छब्दज्ञानं भवति उपमितिश्च तज्जन्या भवति । अथ च शब्दज्ञानमपि पदज्ञानजन्यं भवति, तज्जन्यत्वं उपमितौ शाब्दे च । तदसमा-नाधिकरणा या जातिः साक्षात्कारत्वरूपा तद्वान् यः अनुभवः साक्षात्कारः स अनुमितिरिति स्यात् ; तद्वारणाय जन्यज्ञानजन्यत्वाव्यभिचारीति । जन्यज्ञानं व्याप्तिज्ञानं, तज्जन्यत्वं अनुमितौ। अनुमितिनिष्ठो धर्मस्तत्समानाधिकरणा या जातिः प्रत्यक्षं च जन्यशब्दधीजन्यं न भवति । ननु वाक्यप्रत्यक्षादौ जन्यशब्दधीजन्यत्वाव्यभिचारित्वात् प्रत्यक्षत्वं न जन्यशब्दधीजन्यत्वव्यभिचारीति चेन्न । प्रत्यक्षत्वसामानाधिकरण्येन जन्यशब्दधीजन्यत्वसत्त्वेऽपि प्रत्यक्षत्वावच्छेदेन जन्यशब्दधीजन्यत्वव्यभिचारित्वादतिव्याप्तिरिति सूचयितुं नित्ये निर्विकल्पके चेति। _ धर्मवदनुभवत्वं अनुमितित्वं इत्युक्ते सविकल्पकत्वमादाय प्रत्यक्षत्वेऽतिव्याप्तिः । सविकल्पकं जन्यज्ञानजन्यं भवति, सविकल्पकस्य निर्विकल्पकजन्यत्वात् । अथ च जन्यशब्दधीजन्यं न भवति । तद्वारणाय जातिपदम् । सविकल्पकत्वं च न जातिः, चाक्षुषत्वादिना साङ्कर्यात् । चाक्षुषत्वाभावोऽस्ति त्वाचसविकल्पके, तत्र सविकल्पकत्वाभावो नाऽस्ति। सविकल्पकत्वा-भावोऽस्ति निर्विकल्पके, तत्र चाक्षुषत्वाभावो नास्ति । तदुभयं च चाक्षुषे सविकल्पके । इति दिक्। SHETERALLEPROTAPane ★ प्रथम; पर्वते धूमदर्शनं (१), ततः सहचारस्मरणं (२), ततो धूमो वह्निव्याप्य इति ___ व्याप्तिज्ञानं (३), ततो वह्निव्याप्यधूमवान् पर्वत इति परामर्शलक्षणो व्यापारः (४), ततः पर्वतो वह्निमानित्यनुमितिः । २६. मुद्रिते पृ. ७०। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144