Book Title: Anekarth Ratna Manjushayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 10
________________ प्रस्तावना "सिद्धं सिद्धत्थाणं ठाणमणोवमसुहं उवगयाणं । कुसमयविसासणं सासणं जिणाणं भवजिणाणं ॥१॥" -सन्मतिप्रकरणे अनेकार्थरत्नमञ्जषाभिधस्यास्य कृतिकलापस्य प्रस्तावनाप्रणयने नाहमलम् , यथेष्टसा- ५ धनाभावात् । तथापि प्रास्ताविकं किञ्चिल्लिख्यते । तावत् प्रस्तूयतेऽनेकार्थसाहित्यगवेषणा___ अनेकार्थसाहित्यविषयका आहेत विवुधवरविरचिता नाना ग्रन्था दरीदृश्यन्ते । तत्र विषयानुक्रमणिकागतान् विहाय श्वेताम्बरीयाणां कतिपयानां नामोल्लेखः क्रियते । यथाहि(१) कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिप्रणीतं प्राकृतद्व्याश्रयकाव्यम् । (२) एतत्सरिसन्डब्धं संस्कृतद्व्याश्रयकाव्यम् । (३) एतत्सरिसूत्रितं सप्तसन्धानमहाकाव्यम् । (४) महोपाध्यायश्रीमेघविजयविरचितं सप्तसन्धानमहाकाव्यम् । (५) श्रीहेमचन्द्रसूरिविनेयश्रीवर्धमानगणिगुम्फितं कुमारविहारप्रशस्तिमहाकाव्यम्। १-२ पुण्यपत्तनस्थप्राच्यविद्यासंशोधनमन्दिरात् प्रसिद्धिं नीतमिदं प्रत्येकम् । महोपाध्यायश्रीमेघविजयैः सप्तसन्धानमहाकाव्यनाच्या निजकृतेः प्रारम्भे समसूचि, परन्तु तद् विनष्टमेतरमहोपाध्यायसमयपूर्वमिति ज्ञायते सप्तसन्धानगतेन प्रारम्भिकेन पगेन । ४ इदं मुद्रापितं समस्ति । ५ एतस्प्रारम्भ उलेखोऽयम् "श्रीहेमचन्द्रसूरिशिष्येण वर्धमानगणिना कुमारविहारप्रशस्ती कान्येऽमुस्मिन् पूर्व परर्थे कृतेऽपि कौतुकात् पोडशोत्तरं व्याख्यानां चके । तत्र प्रशस्तौ सप्ताशीतितमं वृत्तम् । तच्चेदम् 'गम्भीरः श्रुतिमिः सदाचरणतः प्राप्तः प्रतिष्ठोदयः सस्कान्तारचितप्रियो बहुगुणो यः साम्यमालम्ब्यते । श्रीचौलुक्यनरेश्वरेण विबुधश्रीहेमचन्द्रेण च श्रीमद्वाग्भटमत्रिणा च परिवादिष्या च मन्त्रेण च ॥" अस्य पद्यस्य ११६ अर्थाः। प्रणतनृपा-प्रणतनृप-ब्रह्म-विष्णु-महेश-परब्रह्म-धनपति-क्षेत्रपाल-धनदा-उरकृतयुग-विष्णुचक्रा-ऽनिरुध्य-वागुरिक-पल्लीपति-चकोर-नागराज-सुरपति-वैश्वानर-कृतान्त-राक्षस-वायु-कमठपाताल-मर्त्यलोक-सुरलोक-वरुण-धनुर्धर-सजन-दुर्जन-कुमारपाल-राजहंस-पण्डित-मूर्ख-लक्ष्मी हेमगुण-चन्द्रकपूर-देव-सूर्य-हेमचन्द्रसूरि-मङ्गल-बुध-बृहस्पति-शुक्र-शनैश्चर-राहु-केतु-शङ्करशीपंगतचन्द्र-महेशहास्य-मदादेवासा-दानव-नर-लक्ष्मीनाशक-सुवर्णशशि-याचक-निष्काम-धर्मा-ऽर्थ-काम-मोक्ष-सरस्वती-वाक्-सुभटमवादि-पविक-घसर-सर्पिणी-व्यभिचारिणी-पण्डिता-सुभग-वात्स्यायन-भौतिकतापस-गौरीचर-खनतट-च. द्रकिरण-चारित्रप्राप्तधन-उल्का-मुख-शुक-कामि-सर्पदृष्टि-कामिनी-सामन्त-मांसाहार-कृपालुरवपरीक्षाका- - मालकास्ति-निधिकलश-जलचर-देवाकृति-वणिग्-जिनप्रतिमा-ऽर्हद्भक्त-स्थाद्वादवादि-पौरुष-विनायक-हस्तिना. वक-पर्वतगुहा-जिन-समवसरण-ज्ञान-दर्शन-चारित्र-यति-वाग्भट-जैनसिद्धान्त-गतिसिर-वेश्यासक्त-जिनेश्वरजिनस्वतिकारक-वृषभदेव-भरतपकि-चरमजिन-पार्वजिनेति विषयाः। अर्थ.2 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 180